क्रमाङ्कः,सूत्रम्,अधिकारः,व्याख्यानम्,सन्दर्भ_सूत्राणि 1,लिङ्गम्,,, 2,स्त्री,स्त्र्यधिकारः,अधिकारसूत्रे एते, 3,ऋकारान्ता मातृदुहितृस्वसृयातृननान्दरः,स्त्र्यधिकारः,ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गाः; स्वस्रादिपञ्चकस्येव ङीब्निषेधेन कर्त्रीत्यादेर्ङीपा ईकारान्तत्वात्; तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योस्त्रिचतुरोर्ऋदन्तत्वाभावात्, 4,अन्यूप्रत्ययान्ता धातुः,स्त्र्यधिकारः,अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातुः स्त्रियां स्यात्; अवनिः; चमूः; प्रत्ययग्रहणं किम् ? - देपयतेः क्विप् द्यूः; विशेष्यलिङ्गः, 5,अशनिभरण्यरणयः पुंसि च,स्त्र्यधिकारः,इयमयं वा अशनिः, 6,मिन्यतः,स्त्र्यधिकारः,मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रियां स्यात्; भूमिः; ग्लानिः, 7,वह्निवृष्णवग्नयः पुंसि,स्त्र्यधिकारः,पूर्वस्यापवादः, 8,श्रोणियोन्यूर्मयः पुंसि च,स्त्र्यधिकारः,इयमयं वा श्रोणिः, 9,क्तिन्नन्तः,स्त्र्यधिकारः,स्पष्टम्; कृतिरित्यादि, 10,ईकारान्तश्च,स्त्र्यधिकारः,ईप्रत्ययान्तः स्त्री स्यात्; लक्ष्मीः, 11,ऊङाबन्तश्च,स्त्र्यधिकारः,कुरूः; विद्या, 12,य्वन्तमेकाक्षरम्,स्त्र्यधिकारः,श्रीः; भूः; एकाक्षरं किम् ? पृथुश्रीः, 13,विंशत्यादिरानवतेः,स्त्र्यधिकारः,इयं विंशतिः; त्रिंशत्; चत्वारिंशत्; पञ्चाशत्; षष्टिः; सप्ततिः; अशीतिः; नवतिः, 14,दुन्दुभिरक्षेषु,स्त्र्यधिकारः,इयं दुन्दुभिः; अक्षेषु किम् ? अयं दुन्दुभिर्वाद्यविशेषोऽसुरो वेत्यर्थः, 15,नाभिरक्षत्रिये,स्त्र्यधिकारः,इयं नाभिः, 16,उभाव्यप्यन्यत्र पुंसि,स्त्र्यधिकारः,दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्तः; नाभिः क्षत्रियः; कथं तर्हि समुल्लसत्पङ्कजपङ्कजपत्रकोमलैरूपाहितश्रीण्युपनीविनाभिरिति भारवीः ? उच्यते - दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुंसकं बोध्यम्; वस्तुतस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति भाष्यात् पुंस्त्वमपीह साधु; अतएव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान्; द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामद इति मेदिनी; रभसोऽप्याह - मुख्यराट्क्षत्रिये नाभिः पुंसि प्राण्यङ्गे द्वयोः; चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति; एवमेवंविधेऽन्यत्रापि बोध्यम्, 17,तलन्तः,स्त्र्यधिकारः,अयं स्त्रियां स्यात्; शुक्लस्य भावः शुक्लता; ब्राह्मणस्य कर्म ब्राह्मणता; ग्रामस्य समूहो ग्रामता; देव एव देवता, 18,भूमिविद्युत्सरिल्लतावनिताभिधानानि,स्त्र्यधिकारः,भूमिर्भूः; विद्युत्सौदामनी; सरिन्निम्नगा; लता वल्ली; वनिता योषित्, 19,यादो नपुंसकम्,स्त्र्यधिकारः,यादःशब्दः सरिद्वाचकोऽपि क्लीबं स्यात्, 20,भाःस्रुक्स्रग्दिगुष्णिगुपानहः,स्त्र्यधिकारः,एते स्त्रियां स्युः; इयं भाः इत्यादिः, 21,स्थूणोर्णे नपुंसके च,स्त्र्यधिकारः,एते स्त्रियां क्लीबे च स्तः; स्थूणा; स्थूणम्; ऊर्णा; ऊर्णम्; तत्र स्थूणा काष्ठमयी द्विकर्णिका; ऊर्णा तु मेषादिलोम, 22,गृहशशाभ्यां क्लीबे,स्त्र्यधिकारः,नियमार्थमिदम्; गृहशशपूर्वे स्थूणोर्णे यथासङ्ख्यं नपुंसके स्तः; गृहस्थूणम्; शशोर्णं शशलोमनीत्यमरः, 23,प्रावृट्विप्रट्रुट्विट्त्विषः,स्त्र्यधिकारः,एते स्त्रियां स्युः, 24,दर्विविदिवेदिखनिशान्यश्रिवेशिकृष्योषधिकट्यङ्गुलयः,स्त्र्यधिकारः,"एते स्त्रियां स्युः; पक्षे ङीप्; दर्वी, दर्विः इत्यादि", 25,तिथिनाडिरुचिवीचिनालिधूलिकिकिकेलिच्छविरात्र्यादयः,स्त्र्यधिकारः,एते प्राग्वत्; इयं तिथिरित्यादि; अमरस्त्वाह तिथयो द्वयोरिति; तथा च भारविः; तस्य भुवि बहुतिथास्तिथय इति; स्त्रीत्वे हि बहुतिथ्य इति स्यात्; श्रीहर्षश्च; निखिलान्निशि पौर्णिमातिथीनिति, 26,शष्कुलिराजिकुट्यशनिवर्तिभृकुटित्रुटिवलिङ्क्तयः,स्त्र्यधिकारः,एतेऽपि स्त्रियां स्युः; इयं शष्कुलिः, 27,प्रतिपदापद्विपत्सम्पच्छरत्संसत्परिषदुषः संवित्क्षुत्पुन्मुत्समिधः ।,स्त्र्यधिकारः,इयं प्रतिपदित्यादि; उषा उच्छन्ती; उषाः प्रातरधिष्ठात्री देवता, 28,आशीर्धूःपूर्गीर्द्वारः,स्त्र्यधिकारः,इयमाशीरित्यादिः, 29,अप्सुमनस्समासिकतावर्षाणां बहुत्वं च,स्त्र्यधिकारः,अबादीनां पञ्चानां स्त्रीत्वं स्यात् बहुत्वं च; आपः इमाः; स्त्रियः सुमनसः पुष्पम्; सुमना मालती जातिः; देववाची तु पुंस्येेव; सुपर्वाणः सुमनसः; बहुत्वं प्रायिकम्; एका च सिकता तैलदाने असमर्थेति अर्थवत्सूत्रे भाष्यप्रयोगात्; इत्यत्र समायां समायामिति भाष्याच्च; इति सूत्रे अघ्रासातां सुमनसाविति वृत्तिव्याख्यायां हरदत्तोऽप्येवम्,समांसमां विजायते ५.२.१२ | विभाषा घ्राधेट्शाच्छासः २.४.७८ 30,स्रक्त्वक्ज्योग्वाग्यवागूनौस्फिजः,स्त्र्यधिकारः,इयं स्रक् त्वक् ज्योक् वाक् यवागूः नौः स्फिक्, 31,तृटिसीमासंबध्याः,स्त्र्यधिकारः,इयं तृटिः; सीमा; संबध्या, 32,चुल्लिवेणिखार्यश्च,स्त्र्यधिकारः,स्पष्टम्, 33,ताराधाराज्योत्स्नादयश्च,स्त्र्यधिकारः,, 35,पुमान्,पुंलिङ्गाधिकारः,अधिकारोऽयम्, 36,घञबन्तः,पुंलिङ्गाधिकारः,पाकः; त्यागः; करः; गरः; भावार्थे एवेदम्; नपुंसकत्वविशिष्टे भावे क्तल्युड्भ्यां स्त्रीत्वविशिष्टे तु क्तिन्नाडिभिर्बाधेन परिशेषात्; कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम्; तथा च भाष्यम्; सम्बन्धमनुवर्तिष्यत इति, 37,घाजन्तश्च,पुंलिङ्गाधिकारः,विस्तरः; गोचरः; चयः; जयः; इत्यादि, 38,भयलिङ्गभगपदानि नपुंसके,पुंलिङ्गाधिकारः,एतानि नपुंसके स्युः; भयम्; लिङ्गम्; भगम्; पदम्, 39,नङन्तः,पुंलिङ्गाधिकारः,नङ्प्रत्ययान्तः पुंसि स्यात्; यज्ञः; यत्नः, 40,याच्ञा स्त्रियाम्,पुंलिङ्गाधिकारः,पूर्वस्यापवादः, 41,क्यन्तो घुः,पुंलिङ्गाधिकारः,किप्रत्ययान्तो घुः पुंसि स्यात्; आधिः; निधिः; उदधिः; क्यन्तः किम् ? दानम्; घुः किम् ? जज्ञिर्बीजम्, 42,इषुधि स्त्री च,पुंलिङ्गाधिकारः,इषुधिशब्दः स्त्रियां पुंसि च; पूर्वस्यापवादः, 43,देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्तस्तनभुजकण्ठखड्गशरपङ्काभिधानानि,पुंलिङ्गाधिकारः,एतानि पुंसि स्युः; देवाः सुराः; असुराः दैत्याः; आत्मा क्षेत्रज्ञः; स्वर्गो नाकः; गिरिः पर्वतः; समुद्रोऽब्धिः; नखः कररुहः; केशः शिरोरुहः; दन्तो दशनः; स्तनः कुचः; भुजो दोः; कण्ठो गलः; खड्गः करवालः; शरो मार्गणः; पङ्कः कर्दमः इत्यादु, 44,त्रिविष्टपत्रिभुवने नपुंसके,पुंलिङ्गाधिकारः,स्पष्टम्; तृतीयं विष्टपं त्रिपिष्टपम्; स्वर्गाभिधानतया पुंस्त्वे प्राप्ते अयमारम्भः, 45,द्यौः स्त्रियाम्,पुंलिङ्गाधिकारः,द्योदिवोस्तन्त्रेणोपादानमिदम्, 46,इषुबाहू स्त्रियां च,पुंलिङ्गाधिकारः,चात्पुंसि, 47,बाणकाण्डौ नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; त्रिविष्टपेत्यादिचतुःसूत्री देवासुरेत्यस्यापवादः, 48,नान्तः,पुंलिङ्गाधिकारः,अयं पुंसि; राजा; तक्षा; न च चर्मवर्मादिष्वतिव्याप्तिः 'मन्द्व्यच्कोऽकर्तरि' इति नपुंसकप्रकरणे वक्ष्यमाणत्वात्, 49,क्रतुपुरुषकपोलगुल्फमेघाभिधानानि,पुंलिङ्गाधिकारः,क्रतुरध्वरः; पुरुषो नरः; कपोलो गरुडः; गुल्फः प्रपदः; मेघो नीरदः, 50,अभ्रं नपुंसकम्,पुंलिङ्गाधिकारः,पूर्वस्यापवादः, 51,उकारान्तः,पुंलिङ्गाधिकारः,अयं पुंसि स्यात्; प्रभुः; इक्षुः; हनुर्हट्टविलासिन्यां नृत्यारम्भे गदे स्त्रियाम्; द्वयोः कपोकावयव इति मेदिनी; करेणुरिभ्यां स्त्री नेभे इत्यमरः; एवंजातीयकविशेषवचनानाक्रान्तस्तु प्रकृतसूत्रस्य विषयः; उक्तं च - लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधित इति; एवमन्यत्रापि, 52,धेनुरज्जुकुहूसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् ।,पुंलिङ्गाधिकारः,, 53,समासे रज्जुः पुंसि च,पुंलिङ्गाधिकारः,कर्कटरज्वा; कर्कटरज्जुना, 54,श्मश्रुजानुवसुस्वाद्वश्रुजतुत्रयपुतालूनि नपुंसके,पुंलिङ्गाधिकारः,, 55,वसु चार्थवाचि,पुंलिङ्गाधिकारः,अर्थवाचीति किम् ? वसूर्मयुखाग्निधनाधिपेषु, 56,मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि अयं मद्गुः; इदं मद्गु, 57,रुत्वन्तः,पुंलिङ्गाधिकारः,मेरुः; सेतुः, 58,दारुकशेरुजतुवस्तुमस्तूनि नपुंसके,पुंलिङ्गाधिकारः,रुत्वन्त इति पुंस्त्वस्यापवादः; इदं दारु, 59,सक्तुर्नपुंसके च,पुंलिङ्गाधिकारः,"चात्पुंसि; सक्तुः, सक्तु", 60,प्रागरश्मेरकारान्तः,पुंलिङ्गाधिकारः,रश्मिर्दिवसाभिधानमिति वक्ष्यति; प्रागेतस्मादकारान्त इत्यधिक्रियते, 61,कोपधः,पुंलिङ्गाधिकारः,कोपधोऽकारान्तः पुंसि स्यात्; स्तबकः; कल्कः, 62,चिबुकशालूकप्रातिपदिकांशुकोल्मुकानि नपुंसके,पुंलिङ्गाधिकारः,पूर्वसूत्रापवादः, 63,कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्कवर्चस्कपिनाकभाण्डकपिण्डककटकशण्डकपिटकतालकफलकपुलाकानि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; अयं कण्टकः; इदं कण्टकमित्यादि, 64,टोपधः,पुंलिङ्गाधिकारः,टोपधोऽकारान्तः पुंसि स्यात्; घटः; पटः, 65,किरीटमुकुटललाटवटवीटशृङ्गाटकराटलोष्टानि नपुंसके च,पुंलिङ्गाधिकारः,किरिटमित्यादि, 66,कुटकूटकटपटकवाटकर्पटनटनिकटकीटकटानि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; कुटः कुटमित्यादि, 67,णोपधः,पुंलिङ्गाधिकारः,णोपधोऽकारान्तः पुंसि स्यात्; गुणः; गणः; पाषाणः, 68,ऋणलवणपर्वतोरणरणोष्णानि नपुंसके,पुंलिङ्गाधिकारः,पूर्वसूत्रापवादः, 69,कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुंसकेच,पुंलिङ्गाधिकारः,चात्पुंसि, 70,थोपधः,पुंलिङ्गाधिकारः,रथः, 71,काष्ठपृष्ठसिक्थोक्थानि नपुंसके,पुंलिङ्गाधिकारः,इदं काष्ठमित्यादि, 72,काष्ठा दिगर्था स्त्रियाम्,पुंलिङ्गाधिकारः,इमाः काष्ठाः, 73,तीर्थप्रोथयूथगाथानि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; अयं तीर्थः; इदं तीर्थम्, 74,नोपधः,पुंलिङ्गाधिकारः,अदन्तः पुंसि; इनः फेनः, 75,जघनाकिनतुहिनकाननवनवृजिनविपिनवेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिह्नानि नपुंसके,पुंलिङ्गाधिकारः,पूर्वस्यापवादः, 76,मानयानाभिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनासमानभवनवसनसंभावनविभावनविमानानि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; अयं मानः; इदं मानम्, 77,पोपधः,पुंलिङ्गाधिकारः,अदन्तः पुंसि; यूपः; दीपः, 78,पापरूपोडुपतल्पशिल्पपुष्पसमीपान्तरीपाणि नपुंसके,पुंलिङ्गाधिकारः,इदं पापमित्यादि, 79,शूर्पकुतपकुणपद्वीपविटपानि नपुंसके च,पुंलिङ्गाधिकारः,अयं शूर्पः; इदं शूर्पमित्यादि, 80,भोधपः,पुंलिङ्गाधिकारः,स्तम्भः, 81,तलभं नपुंसकम्,पुंलिङ्गाधिकारः,पूर्वस्यापवादः, 82,जृम्भं नपुंसके च,पुंलिङ्गाधिकारः,जृम्भम्; जृम्भः, 83,मोपधः,पुंलिङ्गाधिकारः,सोमः; भीमः, 84,रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके,पुंलिङ्गाधिकारः,इदं रुक्ममित्यादि, 85,संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि अयं संग्रामः; इदं संग्रामम्, 86,योपधः,पुंलिङ्गाधिकारः,समयः; हयः, 87,किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके,पुंलिङ्गाधिकारः,स्पष्टम्, 88,गोमयकषायमलयान्वयाव्ययानि नपुंसके च,पुंलिङ्गाधिकारः,गोमयः; गोमयम्, 89,रोपधः,पुंलिङ्गाधिकारः,क्षुरः; अङ्कुरः, 90,द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रनारतीरदूरकृच्छ्ररन्धाश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदराजस्रशरीरकन्दरमन्दारपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रनक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके,पुंलिङ्गाधिकारः,इदं द्वारमित्यादि, 91,शुक्रमदेवतायाम्,पुंलिङ्गाधिकारः,इदं शुक्रं रेतः, 92,चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारबषङ्गारमन्दारोशीरतिमितशिशिराणि नपुंसके च,पुंलिङ्गाधिकारः,"चात्पुंसि; चक्रः, चक्रमित्यादि", 93,षोपधः,पुंलिङ्गाधिकारः,वृषः; वृक्षः, 94,शिरीषर्जीषाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके,पुंलिङ्गाधिकारः,, 95,यूषकरीषमिषविषवर्षाणि नपुंसके च,पुंलिङ्गाधिकारः,चात्पुंसि; अयं यूषः; इदं यूषमित्यादि, 96,सोपधः,पुंलिङ्गाधिकारः,वत्सः; वायसः; महानसः, 97,पनसबिसबुससाहसानि नपुंसके,पुंलिङ्गाधिकारः,, 98,चमसांसररनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च,पुंलिङ्गाधिकारः,इदं चमसम्; अयं चमसः; इत्यादि, 99,कंसं चात्प्राणिनि,पुंलिङ्गाधिकारः,कंसोऽस्त्री पानभाजनम्; प्राणिनि तु कंसो नाम कश्चिद्राजा, 100,रश्मिदिवसाभिधानानि,पुंलिङ्गाधिकारः,एतानि पुंसि स्युः; रश्मिर्मयूखः दिवसो घस्नः, 101,दीधितिः स्त्रियाम्,पुंलिङ्गाधिकारः,पूर्वस्यापवादः, 102,दिनाहनी नपुंसके,पुंलिङ्गाधिकारः,अयमप्यपवादः, 103,मानाभिधामनि,पुंलिङ्गाधिकारः,एतानि पुंसि स्युः; कुडवः; प्रस्थः, 104,द्रौणाढकौ नपुंसके च,पुंलिङ्गाधिकारः,इदं द्रोणम्; अयं द्रोणः, 105,खारीमानिके स्त्रियाम्,पुंलिङ्गाधिकारः,इयं खारी; इयं मानिका, 106,दाराक्षतलजासूनां बहुत्वं च,पुंलिङ्गाधिकारः,इमे दाराः, 107,नाड्यपजनोपपदानि व्रणाङ्गपदानि,पुंलिङ्गाधिकारः,यथासङ्ख्यं नाड्यादीन्युपपदानि व्रणादीनि पुंसि स्युः; अयं नाडीव्रणः; अपाङ्गः; जनपदः; व्रणादीनामुभयलिङ्गत्वेऽपि क्लीबत्वानुवृत्यर्थं सूत्रम्, 108,मरुद्गरुत्तरदृत्विजः,पुंलिङ्गाधिकारः,अयं मरुत्, 109,ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौलिरविकविकपिमुनयः,पुंलिङ्गाधिकारः,एते पुंसि स्युः; अयमृषिः, 110,ध्वजगजमुञ्जपुञ्जाः,पुंलिङ्गाधिकारः,एते पुंसि, 111,हस्तकुन्तान्तव्रातवातदूतधूतसूतचूतमुहूर्ताः,पुंलिङ्गाधिकारः,एते पुंसि; अमरस्तु मुहुर्तोऽस्त्रियामित्याह, 112,षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः,पुंलिङ्गाधिकारः,अयं षण्डः, 113,वंशांशपुरोडाशः,पुंलिङ्गाधिकारः,"अयं वंशः; पुरो दाश्यते पुरोडाशाः; कर्मणि घञ्; भव्यव्याख्यानयोः प्रकरणे इति विकारप्रकरणे, इति च निपातनात् प्रकृतसूत्र एव निपातनाद्वा दस्य डत्वम्; पुरोडाशभुजामिष्टमिति माघः",पौरोडाशपुरोडाशात् ष्ठन् ४.३.७० | व्रीहेः पुरोडाशे ४.३.१४८ 114,हृदकन्दकुन्दबुद्बुदशब्दाः,पुंलिङ्गाधिकारः,अयं हृदः, 115,अर्धपथिमथ्यृभुक्षिस्तम्बनितम्बपूगाः,पुंलिङ्गाधिकारः,अयमर्धः, 116,पल्लवपल्वलकफरेफकटाहनिर्व्यूहमठमणितरङ्गतुरङ्गगन्धमृदङ्गसङ्गसमुद्गपुङ्खाः,पुंलिङ्गाधिकारः,अयं पल्लवः इत्यादि, 118,नपुंसकम्,नपुंसकाधिकारः,अधिकारोऽयम्, 119,भावे ल्युडन्तः,नपुंसकाधिकारः,हसनम्; भावे किम् ? पचनोऽग्निः; इध्मप्रवचनः कुठारः, 120,निष्ठा च,नपुंसकाधिकारः,भावे या निष्ठा तदन्तं क्लीबन्तं स्यात्; हसितम्; गीतम्, 121,त्वष्यञौ तद्धितौ,नपुंसकाधिकारः,शुक्लत्वम्; शौक्ल्यम्; ष्येञः षित्वसामर्थ्यात् पक्षे स्त्रीत्वम्; चातुर्यम्; चातुरी; सामग्र्यम्; सामग्री; औचित्यम्; औचिती, 122,कर्मणि च ब्राह्मणादिगुणवचनेभ्यः,नपुंसकाधिकारः,ब्राह्मणस्य कर्म ब्राह्मण्यम्, 123,यद्यढग्यगयण्बुञ्छाश्च भावकर्मणि,नपुंसकाधिकारः,एतदन्तानि क्लीबानि; - स्तेयम्; - सख्यम्; - कापेयम्; - आधिपत्यम्; - औष्ट्रम्; - द्वैहायनम्; - पितापुत्रकम्; - अच्छावायीकम्; - अधिस्त्री,स्तेनाद्यन्नलोपश्च ५.१.१२५ | सख्युर्यः ५.१.१२६ | कपिज्ञातोर्ढक् ५.१.१२७ | पत्यन्तपुरोहितादिभ्यो यक् ५.१.१२८ | प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ५.१.१२९ | हायनान्तयुवादिभ्योऽण् ५.१.१३० | द्वन्द्वमनोज्ञादिभ्यश्च ५.१.१३३ | होत्राभ्यश्छः ५.१.१३५ | अव्ययीभावः २.४.१८ 124,द्वन्द्वैकत्वम्,नपुंसकाधिकारः,पाणिपादम्, 125,अभाषायां हेमन्तशिशिरावहोरात्रे च,नपुंसकाधिकारः,स्पष्टम्, 126,अनञ्कर्मधारयस्तत्पुरुषः,नपुंसकाधिकारः,अधिकारोऽयम्, 127,अनल्पे छाया,नपुंसकाधिकारः,शरच्छायम्, 128,राजाऽमनुष्यपूर्वा सभा,नपुंसकाधिकारः,इनसभमित्यादि, 129,सुरासेनाच्छायाशालानिशा स्त्रियां च,नपुंसकाधिकारः,, 130,परवत्,नपुंसकाधिकारः,अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात्; रात्राह्नाहाः पुंसि, 131,अपथपुण्याहे नपुंसके,नपुंसकाधिकारः,, 132,संख्यापूर्वा रात्रिः,नपुंसकाधिकारः,त्रिरात्रम्; सङ्ख्यापूर्वेति किम् ? सर्वरात्रः, 133,द्विगुः स्त्रियां च,नपुंसकाधिकारः,व्यवस्थया; पञ्चमूली; त्रिभुवनम्, 134,इसुसन्तः,नपुंसकाधिकारः,हविः; धनुः, 135,अर्चिः स्त्रियां च,नपुंसकाधिकारः,इसन्तत्वेऽपि अर्चिः; स्त्रियां नपुंसके च स्यात्; इयमिदं वा अर्चिः, 136,छदिः स्त्रियामेव,नपुंसकाधिकारः,इयं छदिः; छद्यते अनेन इति छादेश्चुरादिण्यन्तादर्चिशुचीत्यादिना इस्; इस्मन्नित्यादिना ह्रस्वः; पटलं छदिरित्यमरः; तत्र पटलसाहचर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातारः उपेक्ष्याः, 137,मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि,नपुंसकाधिकारः,एतेषामभिधानानि क्लीबे स्युः; मुखमाननम्; नयनं लोचनम्; लोहं कालम्; वनं गहनम्; मांसमामिषम्; रुधिरं रक्तम्; कार्मुकं शरासनम्; विवरं बिलम्; जलं वारि; हलं लाङ्गलम्; धनं द्रविणम्; अन्नमशनम्; अस्यापवादानाह त्रिसूत्र्या, 138,सीरार्थौदनाः पुंसि,नपुंसकाधिकारः,, 139,वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च,नपुंसकाधिकारः,वक्त्रो वक्त्रम्; नेत्रो नेत्रम्; अरण्योऽरण्यम्; गाण्डीवो गाण्डीवम्, 140,अटवी स्त्रियाम्,नपुंसकाधिकारः,, 141,लोपधः,नपुंसकाधिकारः,कुलम्; कूलम्; स्थलम्, 142,तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि,नपुंसकाधिकारः,अयं तूलः, 143,शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च,नपुंसकाधिकारः,चात्क्लीबे; शीलं शीलः इत्यादि, 144,शतादिः संख्या,नपुंसकाधिकारः,शतम्; सहस्रम्; शतादिरिति किम् ? एक द्वौ बहवः; सङ्ख्येति किम् ? शतशृङ्गो नाम पर्वतः, 145,शतायुतप्रयुताः पुंसि च,नपुंसकाधिकारः,अयं शतः; इदं शतम् इत्यादि, 146,लक्षा कोटिः स्त्रियाम्,नपुंसकाधिकारः,इयं लक्षा; इयं कोटिः; वा लक्षा नियुतं च तदित्यमरात् क्लीबेऽपि लक्षम्, 147,शङ्कुः पुंसि,नपुंसकाधिकारः,, 148,सहस्रः क्वचित्,नपुंसकाधिकारः,अयं सहस्रः; इदं सहस्रम्, 149,मन्द्व्यच्कोऽकर्तरि,नपुंसकाधिकारः,मन्प्रत्ययान्तो द्व्यच्कः क्लीबः स्यान्न तु कर्तरि; वर्म; चर्म; द्व्यच्कः किम् - अणिमा; महिमा; अकर्तरि किम् ? ददातीति दामा, 150,ब्रह्मन् पुंसि च,नपुंसकाधिकारः,अयं ब्रह्मा; इदं ब्रह्म, 151,नामरोमणी नपुंसके,नपुंसकाधिकारः,'मन्द्व्यच्क' इत्यस्यायं प्रपञ्चः, 152,असन्तो द्व्यच्कः,नपुंसकाधिकारः,यशः; मनः; तपः; द्व्यच्कः किम् ? चन्द्रमाः, 153,अप्सराः स्त्रियाम्,नपुंसकाधिकारः,एता अप्सरसः; प्रायेणायं बहुवचनान्तः, 154,त्रान्तः,नपुंसकाधिकारः,पत्रम्; छत्रम्, 155,यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव,नपुंसकाधिकारः,, 156,भृत्रामित्रछात्रपुत्रमन्त्रवृत्रमेढोष्ट्राः पुंस,नपुंसकाधिकारः,अयं भृत्रः, 157,पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च,नपुंसकाधिकारः,, 158,बलकुसुमशुल्बपत्तनरणाभिधानानि,नपुंसकाधिकारः,बलं वीर्यम्, 159,पद्मकमलोत्पलानि पुंसि च,नपुंसकाधिकारः,पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्तुः; अमरोऽप्याह वा पुंसि पद्मं नलिनमिति; एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरेण नेयः, 160,आहवसङ्ग्रामौ पुंसि,नपुंसकाधिकारः,, 161,आजिः स्त्रियामेव,नपुंसकाधिकारः,, 162,फलजातिः,नपुंसकाधिकारः,फलजातिवाची शब्दो नपुंसकः स्यात्; आमलकम्; आम्रम्, 163,वृक्षजातिः स्त्रियामेव,नपुंसकाधिकारः,क्वचिदेवेदम्; हरीतकी, 164,वियज्जगत्सकृत्शकन्पृषत्शकृद्यकृदुदश्वितः,नपुंसकाधिकारः,एते क्लीबाः स्युः, 165,नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि,नपुंसकाधिकारः,, 166,श्राद्धकुलिशदैवपीठकुण्डाङ्काङ्गदधिसक्थक्ष्यास्यास्पदाकाशकण्वबीजानि,नपुंसकाधिकारः,एतानि क्लीबे स्युः, 167,दैवं पुंसि च,नपुंसकाधिकारः,"दैवम्, दैवः", 168,धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहर्म्यतूर्यसैन्यानि,नपुंसकाधिकारः,इदं धान्यमित्यादि, 169,द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचवरशरवृन्दारकाणि,नपुंसकाधिकारः,, 171,स्त्रीपुंसयोः,स्त्रीपुंसाधिकारः,अधिकारोऽयम्, 172,गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः,स्त्रीपुंसाधिकारः,इयं वा गौः, 173,मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः,स्त्रीपुंसाधिकारः,इयमयं वा मृत्युः, 174,गुणवचनमुकारान्तं नपुंसकं च,स्त्रीपुंसाधिकारः,त्रिलिङ्गमित्यर्थः; पटु; पटुः; पट्वी, 176,पुंनपुंसकयोः,पुंनपुंसकाधिकारः,अधिकारोऽयम्, 177,घृतभूतमुस्तक्ष्वेलितैरावतपुस्तकबुस्तलोहिताः,पुंनपुंसकाधिकारः,अयं घृतः; इदं घृतम्, 178,शृङ्गार्घनिदाघोद्यमशल्यदृढाः,पुंनपुंसकाधिकारः,अयं शृङ्गः; इदं शृङ्गम्, 179,वज्रकुञ्जकुथकूर्चप्रस्थदर्पार्भार्धर्चदर्भपुच्छाः,पुंनपुंसकाधिकारः,अयं वज्रः; इदं वज्रम्, 180,कबन्धौषधायुधान्ताः,पुंनपुंसकाधिकारः,स्पष्टम्, 181,दण्डमण्डखमशमसैन्धवपार्श्वाकाशकुशकाशाङ्कुशकुलिशाः,पुंनपुंसकाधिकारः,एते पुंनपुंसकयोः स्तुः; कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले - इति विश्वः; शलाकावाची तु स्त्रियाम्; तथा च इति सूत्रेणायोचिकारे ङीषि कुशी; दारुणि तु टाप्; कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः; इति सूत्रे कुशाकर्णीश्विति प्रयोगश्च; व्याससूत्रे च; हानी तूपायनशब्दे शेषत्वात्कुशाच्छन्द इति; तत्र शारीरकभाष्येऽप्येवम्; एवं च श्रुतिसूत्रभाष्याणामेकवाक्यत्वे स्थिते आच्छन्द इत्याङ्प्रश्लेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः,जानपदकुण्ड... ४.१.४२ | अतः कृकमि... ८.३.४६ 183,अविशिष्टलिङ्गम्,अविशिष्टलिङ्गाधिकारः,, 184,अव्ययं कतियुष्मदः,अविशिष्टलिङ्गाधिकारः,, 185,ष्णान्ता सङ्ख्या,अविशिष्टलिङ्गाधिकारः,शिष्टा परवत्; एकः पुरुषः; एका स्त्री; एकं कुलम्, 186,गुणवचनं च,अविशिष्टलिङ्गाधिकारः,शुक्लः पटः; शुक्ला पटी; शुक्लं वस्त्रम्, 187,कृत्याश्च,अविशिष्टलिङ्गाधिकारः,, 188,करणाधिकरणयोर्ल्युट् च,अविशिष्टलिङ्गाधिकारः,, 189,सर्वादीनि सर्वनामानि,अविशिष्टलिङ्गाधिकारः,स्पष्टार्थेयं त्रिसूची,