पादः,सूत्राङ्कः,सूत्रम्,प्रत्ययः,निष्पन्नानि,सन्दर्भ_सूत्राणि 1,१.१,कृवापाजिमिस्वदिसाध्यशूभ्य उण्,उण्,"करोतीति कारुः , शिल्पी कारकश्च; वातीति वायुः; पायुर्गुदम्; जयत्यभिभवति रोगान् जायुरौषधम्; मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम्; स्वादुः; साध्नोति परकार्यं साधुः; अश्नुते आशु शीघ्रम्; आशुर्व्रीहिः पाटलः स्यात्",७.३.३३ आतो युक्… 1,१.२,छन्दसीणः,उण्,मा न आयौ, 1,१.३,दॄसनिजनिचरिचटिभ्यो ञुण्,ञुण्,दीर्यत इति दारु; स्नुः प्रस्थः सानुरस्त्रियाम्; जानु; जानुनी; इह इति न निषेधः; अनुबन्धद्वयसामर्थ्यात्; चारु रम्यम्; चाटु प्रियं वाक्यम्; मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि,७.३.३५ जनिवध्योश्च 1,१.४,किञ्जरयोः श्रिणः,ञुण्,किं शृणोतीति किंशारुः सस्यशूकं बाणश्च; जरामेति जरायुर्गर्भाशयः; गर्भाशयो जरायुः स्यात्, 1,१.५,त्रो रश्च लः,ञुण्,तरन्त्यनेन वर्णा इति तालुः, 1,१.६,कृके वचः कश्च,ञुण्,कृकेन गलेन वक्तीति कृकवाकुः; ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः, 1,१.७,भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः,उ,"भरति बिभर्ति वा भरुः, स्वामी हरश्च; म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः; शेते शयुरजगरः; तरुर्वृक्षः; चरन्ति भक्षयन्ति देवता इममिति चरुः; त्सरुः खड्गादिमुष्टिः; तनु स्वल्पम्; तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च; स्त्रियां मूर्तिस्तनुस्तनूः; धनुः शस्त्रविशेषः; धनुषा च धनुं विदुः; धनुरिवाजनि वक्र इति श्रीहर्षः; मयुः किंनरः; मद्गुः पानीयकाकिकेति रभसः; न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः", 1,१.८,अणश्च,उ,लवलेशकणाणवः; चात्कटिवटिभ्याम्; कटति रसनां कटुः; वटतीति वटुः, 1,१.९,धान्ये नित्,उ,धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित्; नित्त्वादाद्युदात्तः; प्रियङ्गवश्च मेऽणवश्च मे; व्रीहिभेदस्त्वणुः पुमान्; निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते, 1,१.१०,शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च,उ,शृणातीति शरुः; शरुरायुधकोपयोः; स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम्; स्नेहुर्व्याधिः; चन्द्र इत्यन्ये; त्रपु सीसम्; पुंसि भूम्न्यसवः प्राणाः; वसुर्हृदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ; हनुर्वक्त्रैकदेशः; क्लेदुश्चन्द्रः; बन्धुः; मनुः; चात् बिदि अवयवे; बिन्दुः, 1,१.११,स्यन्देः संप्रसारणं धश्च,उ,देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः, 1,१.१२,उन्देरिच्चादेः,उ,उनत्ति इन्दुः, 1,१.१३,ईषेः किच्च,उ,ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च; ईषते हिनस्ति इषुः शरः; इषुर्द्वयोः, 1,१.१४,स्कन्देः सलोपश्च,उ,कन्दुः, 1,१.१५,सृजेरसुम् च,उ,चात्सलोप उप्रत्ययश्च; रज्जुः, 1,१.१६,कृतेराद्यन्तविपर्ययश्च,उ,ककारतकारयोर्विनिमयः; तर्कुः सूत्रवेष्टनम्, 1,१.१७,नावञ्चेः,उ,न्यङ्क्वादित्वात्कुत्वम्; नियतमञ्चति न्यङ्कुर्मृगः, 1,१.१८,फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च,उ,फलेर्गुक्; फल्गु; पाटेः पटिः; पाटयतीति पटुः; नम्यतेऽनेन नाकुर्वल्मीकम्; मन्यते इति मधु; जायते इति जतु, 1,१.१९,वलेर्गुक्च,उ,वल संवरणे, 1,१.२०,शः कित्सन्वच्च,उ,श्यतेरुः स्यात्स च कित्सन्वच्च; शिशुर्बालः, 1,१.२१,यो द्वे च,उ,ययुरश्वोऽश्वमेधीयः; सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम्, 1,१.२२,कुर्भ्रश्च,कु,बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ; चादन्यतोऽपि; चक्रुः कर्ता; जघ्नुर्हन्ता; पपुः पालकः, 1,१.२३,पॄभिदिव्यधिगृधिधृषिभ्यः,कु,कुः स्यात्; पुरुः; भिनत्ति भिदुर्वज्रम्; इति संप्रसारणम्; विरहिणं विध्यति विधुः; विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे; गृधुः कामः; धृषुर्दक्षः,६.१.१६ ग्रहिज्या... 1,१.२४,कृग्रोरुच्च,कु,करोतीति कुरुः; गृणाति गुरुः, 1,१.२५,अपदुःसुषु स्थः,कु,इति षत्वम्; अपष्ठु प्रतिकूलम्; दुष्ठु; सुष्ठु,८.३.९८ सुषामादिषु च 1,१.२६,रपेरिच्चोपधायाः,कु,अनिष्टं रपतीति रिपुः, 1,१.२७,अर्जिदृशिकम्यमिपशिबाधामृजिपसितुक्धुक्दीर्घहकाराश्च,कु,अर्जयति गुणान् ऋजुः; सर्वानविशेषेण पश्यतीति पशुः; कन्तुः; अन्धुः कूपः; पांशुर्ना न द्वयो रजः; तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः; बाधते इति बाहुः; बाहुः स्त्रीपुंसयोर्भुजः, 1,१.२८,प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च,कु,त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च; पृथुः; मृदुः; न्यङ्क्वादित्वात्कुत्वम्; भृज्जति तपसा भृगुः, 1,१.२९,लङ्घिबंह्योर्नलोपश्च,कु,लघुः; वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते (वार्त्तिकम्); रघुर्नृपभेदः; बहुः, 1,१.३०,ऊर्णोतेर्नुलोपश्च,कु,ऊरुः सक्थि, 1,१.३१,महति ह्रस्वश्च,कु,उरु महत्, 1,१.३२,श्लिषेः कश्च,कु,श्लिष्यतीति श्लिकुर्भृत्यः; उद्यतो ज्योतिश्च, 1,१.३३,आङ्परयोः खनिशॄभ्यां डिच्च,कु,आखनतीत्याखुः; परं शृणातीति परशुः; पृषोदरादित्वादकारलोपात्पर्शुरपि, 1,१.३४,हरिमितयोर्द्रुवः,कु,द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित्; हरिभिर्द्रूयते हरिद्रुर्वृक्षः; मितं द्रवति मितद्रुः समुद्रः, 1,१.३५,शते च,कु,शतधा द्रवति शतद्रुः; बाहुलकात्केवलादपि; द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः, 1,१.३६,खरु शङ्कु पीयु नीलङ्गु लिगु,कु,पञ्चैते कुप्रत्ययान्ता निपात्यन्ते; खनते रेफश्चान्तादेशः; खरुः कामः क्रूरो मूर्खः अश्वश्च; शङ्कुर्ना कीलशल्ययोः; पिबतेरित्वं युगागमश्च; पीयुर्वायसः कालः सुवर्णं च; निपूर्वाल्लगि गतावस्मात्कुत्वं नेर्दीर्घश्च; नीलङ्गुः क्रिमिविशेषः शृगालश्च; नीलाङ्गुरिति पाठान्तरम्; तत्र धातोरपि दीर्घः; लगे सङ्गे अस्य अत इत्वं च; लगतीति लिगु चित्तम्; लिगुर्मूर्खः, 1,१.३७,मृगय्वादयश्च,कु,एते कुप्रत्ययान्ता निपात्यन्ते; मृगं यातीति मृगयुर्व्याधः; देवयुर्धार्मिकः; मित्रयुर्लोकयात्राभिज्ञः; आकृतिगणोऽयम्, 1,१.३८,मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्,उरच्,मन्दुरा वाजिशाला; वाशुरा रात्रिः; मथुरा; चतुरः; चङ्कुरो रथः; अङ्कुरः; खर्जूरादित्वादङ्कूरोऽपि, 1,१.३९,व्यथेः संप्रसारणं किच्च,उरच्,विथुरश्चोररक्षसोः, 1,१.४०,मुकुरदर्दुरौ,उरच्,मुकुरो दर्पणः; बाहुलकान्मकुरोऽपि; दॄ विदारणे; धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च; दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः; दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः, 1,१.४१,मद्गुरादयश्च,उरच्,उरजन्ता निपात्यन्ते; माद्यतेर्गुक्; मद्गुरो मत्स्यभेदः; कबृ वर्णे; रुमागमः; कर्बुरं श्वेतरक्षसोः; बध्नातेः खर्जूरादित्वादूरोऽपि; बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः; (गणसूत्रम् १९५); कुक्कुरः; कुकुरः, 1,१.४२,असेरुरन्,उरन्,असुरः; प्रज्ञाद्यण्; आसुरः, 1,१.४३,मसेश्च,उरन्,पञ्चमे पादे मसेरूरन्निति वक्ष्यते; मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति; मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः; मसूरी पादरोगे स्यादुपधाने पुनः पुमान्; मसूरमसुरौ च द्वाविति विश्वः, 1,१.४४,शावशेराप्तौ,उरन्,शु इति आश्वर्थे; श्वशुरः; पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः, 1,१.४५,अविमह्योष्टिषच्,टिषच्,अविषः; महिषः, 1,१.४६,अमेर्दीर्घश्च,टिषच्,आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि, 1,१.४७,रुहेर्वृद्धिश्च,टिषच्,रङ्कुशम्बररौहिषाः; रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः, 1,१.४८,तवेर्णिद्वा,टिषच्,तवेति सौत्रो धातुः; तविपताविषावब्धौ स्वर्गे च; स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च; तविषी बलमिति वेदभाष्यम्, 1,१.४९,नञि व्यथेः,टिषच्,अव्यथिषोऽब्धिसूर्ययोः; अव्यथिषी धरारात्र्योः, 1,१.५०,किलेर्बुक् च,टिषच्,किल्बिषम्, 1,१.५१,इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्,किरच्,इषिरोऽग्निः; मदिरा सुरा; मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ; खिदिरश्चन्द्रः; छिदिरोऽसिकुठारयोः; भिदिरं वज्रम्; मन्दिरं गृहम्; स्त्रियामपि; मन्दिरं मदिरापि स्यादिति विश्वः; चन्दिरौ चन्द्रहस्तिनौ; तिमिरं तमोऽक्षिरोगश्च; मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः; मुचिरो दाता; रुचिरम्; रुधिरम्; बधिरः; शुष शोषणे; शुषिरं छिद्रम्; शुष्कमित्यन्ये, 1,१.५२,अशेर्णित्,किरच्,आशिरो वह्निरक्षसोः, 1,१.५३,अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः,किरच्,अजेर्वीभावाभावः; अजिरमङ्गणम् शशेरुपधाया इत्वम्; शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत्; श्रथ मोचने उपधाया इत्वं रेफलोपः; प्रत्ययरेफश्च लत्वम्; शिथिलम्; स्थास्फाय्योष्टिलोपः; स्थिरं निश्चलम्; स्फिरं प्रभूतम्; तिष्ठतेर्वुक् ह्रस्वत्वं च; स्थविरः; खदिरः; बाहुलकात् शीङो बुक् ह्रस्वत्वं च; शिबिरम्, 1,१.५४,सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्,इलच्,सलति गच्छति निम्नमिति सलिलम्; कलिलः; अनिलः; महिला; पृषोदरादित्वान्महेलापि; भड इति सौत्रो धातुः; भडिलौ शूरसेवकौ; भण्डिलो दूतः कल्याणं च; शण्डिलो मुनिः; पिण्डिलो गणकः; तुण्डिलो मुखरः; कोकिलः; भविलो भव्यः; बाहुलकात्कुटिलः, 1,१.५५,कमेः पश्च,इलच्,कपिलः, 1,१.५६,गुपादिभ्यः कित्,इलच्,गुपिलो राजा; तिजिलो निशाकरः; गुहिलं वनम्, 1,१.५७,मिथिलादयश्च,इलच्,मथ्यन्तेऽत्र रिपवो मिथिला नगरी; पथिलः; पथिकः, 1,१.५८,पतिकठिकुठिगडिगुडिदंशिभ्य एरक्,एरक्,पतेरः पक्षी गन्ता च; छठेरः कृच्छ्रजीवी; कुठेरः पर्णाशः; बाहुलकान्नुम्न; गडेरो मेघः; गुडेरो गुडकः; दंशेरो हिंस्रः, 1,१.५९,कुम्बेर्नलोपश्च,एरक्,कुबेरः, 1,१.६०,शदेस्त च,एरक्,शतेरः शत्रुः, 1,१.६१,मूलेरादयः,एरक्,एरगन्ता निपात्यन्ते; मूलेरो जटा; गुधेरो गोप्ता; गुहेरो लोहघातकः; मुहेरो मूर्खः, 1,१.६२,कबेरोतच् पश्च,ओतच्,कपोतः पक्षी, 1,१.६३,भातेर्डवतुः,डवतु,भातीति भवान्, 1,१.६४,कठिचकिभ्यामोरन्,ओरन्,कठोरः; चकोरः, 1,१.६५,किशोरादयश्च,ओरन्,किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः; सहोरः साधुः, 1,१.६६,कपिगडिगण्डिकटिपटिभ्य ओलच्,ओलच्,कपीति निर्देशान्नलोपः; कपोलः; गडोलगण्डोलौ गुडकपर्यायौ; कटोलः कटुः; पटोलः, 1,१.६७,मीनातेरूरन्,ऊरन्,मयूरः, 1,१.६८,स्यन्देः संप्रसारणं च,ऊरन्,सिन्दूरम्, 1,१.६९,सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्,तुन्,सिनोतीति सेतुः; इति नेट्; तन्तुः; गन्तुः; मस्तु दधिमण्डम्; सच्यत इति सक्तुः; अर्धर्चादिः; इत्यूठ्; तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात्; ओतुर्बिडालः; धातुः क्रोष्टा,७.२.९ तितुत्र... | ६.४.२० ज्वरत्वर... 1,१.७०,पः किच्च,तुन्,पिबतीति पितुर्वह्नौ दिवाकरे, 1,१.७१,अर्तेश्च तुः,तु,अर्तेस्तुः स्यात्स च कित्; ऋतुः स्त्रीपुष्पकालयोः, 1,१.७२,कमिमनिजनिगाभायाहिभ्यश्च,तु,एभ्यस्तुः स्यात्; कन्तुः कन्दर्पचित्तयोः; मन्तुरपराधः; जन्तुः प्राणी; गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च; भानुरादित्यः; यातुरध्वगकालयोः; रक्षसि क्लीबे; हेतुः कारणम्, 1,१.७३,चायः किः,तु,केतुर्ग्रहपताकयोः, 1,१.७४,आप्नोतेर्ह्रस्वश्च,तु,अप्तुः शरीरम्, 1,१.७५,वसेस्तुन्,तुन्,वस्तु, 1,१.७६,अगारे णिच्च,तुन्,वेश्मभूर्वास्तुरस्त्रियाम्, 1,१.७७,कृञः कतुः,कतु,क्रतुर्यज्ञः, 1,१.७८,एधिवह्योश्चतुः,चतु,एधतुः पुरुषः; वहतुरनड्वान्, 1,१.७९,जीवेरातुः,आतु,जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे, 1,१.८०,आतृकन् वृद्धिश्च,आतृकन्,जीवेरित्येव; जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले, 1,१.८१,कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः,ऊ,कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता; चमूः; तनूः; धनूः शस्त्रम्; सर्ज सर्जने; सर्जूर्वणिक्; खर्ज व्यथने; खर्जूः पामा, 1,१.८२,मृजेर्गुणश्च,ऊ,मर्जूः शुद्धिकृत्, 1,१.८३,वहो धश्च,ऊ,वधूर्जायास्नुषास्त्रीषु, 1,१.८४,कषेश्छश्च,ऊ,कच्छूः पामा, 1,१.८५,णित्कसिपद्यर्तेः,ऊ,कासूः शक्तिः; पादूश्चरणधारिणी; आरूः पिङ्गलः, 1,१.८६,अणो डश्च,ऊ,आडूर्जलप्लवद्रव्यम्, 1,१.८७,नञि लम्बेर्नलोपश्च,ऊ,तुम्ब्यलाबूरुभे समे इत्यमरः, 1,१.८८,के श्र एरङ् चास्य,ऊ,कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः; कशेरूस्तृणकन्दे स्त्री; बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च, 1,१.८९,त्रो दुट् च,ऊ,तरतेरूः स्यात्तस्य दुट्; तर्दूः स्याद्दारुहस्तकः, 1,१.९०,दरिद्रातेर्यालोपश्च,ऊ,इश्च आश्च यौ तयोर्लोपः; दर्द्रूः कुष्ठप्रभेदः, 1,१.९१,नृतिशृध्योः कूः,कू,नृतूर्नर्तकः; शृधूरपानम्, 1,१.९२,ऋतेरम् च,कू,ऋतिः सौत्रो धातुः; ततः कूरमागमश्च; रन्तूर्देवनदी सत्यवाक् च, 1,१.९३,अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः,कू,एते कूप्रत्ययान्ता निपात्यन्ते; अन्दूर्बन्धनम्; दृभी ग्रन्थे; निपातनान्नुम्; दृम्भूः; अनुस्वाराभावोऽपि निपातनादित्येके; दृन्भूः; जनेर्बुक् जम्बूः; जमु अदने अस्येत्येके बाहुलकाद्ध्रस्वोऽपि; जम्बुः; कफं लाति कफेलूः श्लेष्मातकः; निपातनादेत्वम्; कर्कं दधाति कर्कन्धूर्बदरी; निपातनान्नुम्; दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः; केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति; दृम्फ उत्क्लेशे; दृम्फूः सर्पजातिः; कमेर्बुक् कम्बूः परद्रव्यापहारी, 1,१.९४,मृग्रोरुतिः,उति,मरुत्; गरुत्पक्षः, 1,१.९५,ग्रो मुट् च,उति,गिरतेरुतिस्तस्य च मुट्; गर्मुत्सुवर्णं तृणविशेषश्च, 1,१.९६,हृषेरुलच्,उलच्,हर्षुलो मृगकामिनोः; बाहुलकाच्चटतेः; चटुलं शोभनम्, 1,१.९७,हृसृरुहियुषिभ्य इतिः,इति,हरित्ककुभि वर्णे च तृणवाचिविशेषयोः; सरिन्नदी; रोहित् मृगविशेषस्य स्त्री; युष इति सौत्रो धातुः; ऋश्यस्य रोहित्; पुरुषस्य योषित् इति भाष्यम्, 1,१.९८,ताडेर्णिलुक् च,इति,ताडयतीति तडित्, 1,१.९९,शमेर्ढः,ढ,बाहुलकादिसंज्ञा एयादेश इट् च न; शण्ढः स्यात्पुंसि गोपतौ; शण्ढः क्लीबः, 1,१.१००,कमेरठः,अठ,कमठः; कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी; बाहुलकाज्जरठः, 1,१.१०१,रमेर्वृद्धिश्च,अठ,रामठं हिङ्गु, 1,१.१०२,शमेः खः,ख,शङ्खः, 1,१.१०३,कणेष्ठः,ठ,कण्ठः, 1,१.१०४,कलस्तृपश्च,कल,तृपतेः कलप्रत्ययः चात्तृफतेः; तृपला लता; त्रिफला तु फलत्रिके, 1,१.१०५,शपेर्बश्च,कल,शबलः, 1,१.१०६,वृषादिभ्यश्चित्,कल,वृषलः; पललम्; बाहुलकाद्गुणः; सरलः; तरलः; (गणसूत्रम् १९६); कम्बलः; मुस खण्डने; मुसलम्; (गणसूत्रम् १९७); लाङ्गलम्; (गणसूत्रम् १९८); कुट्मलः; कुडेरपि; कुड्मलः; कश्मलम्; बाहुलकाद्गुणः; कोमलम्, 1,१.१०७,मृजेष्टिलोपश्च,कल,मलम्, 1,१.१०८,चुपेरच्चोपधायाः,कल,चपलम्, 1,१.१०९,शकिशम्योर्नित्,कल,शकलम्; शमलम्, 1,१.११०,छो गुक् ह्रस्वश्च,कल,छगलः; प्रज्ञादित्वाच्छागलः, 1,१.१११,ञमन्ताड्डः,ड,दण्डः; रण्डा; खण्डः; भण्डः; वण्डश्छिन्नहस्तः; अण्डः; बाहुलकात्सभावः; षण्डः सङ्घातः; तालव्यादिरित्यपरे; शण्डः; गण्डः; चण्डः; पण्डः क्लीबः; पण्डा बुद्धिः, 1,१.११२,क्वादिभ्यः कित्,ड,कवर्गादिभ्यो डः कित्स्यात्; कुण्डम्; काण्डम्; गुङ्; गुडः; घुण भ्रमणे; घुण्डो भ्रमरः, 1,१.११३,स्थाचतिमृजेरालज्वालजालीयचः,"आलच्, वालच्, आलीयच्",तिष्ठतेरालच्; स्थालम् स्थाली; चतेर्वालच्; चत्वालः; मृजेरालीयच्; मार्जालीयो बिडालः, 1,१.११४,पतिचण्डिभ्यामालञ्,आलञ्,पातालम्; चण्डालः; प्रज्ञादित्वादणि चाण्डालोऽपीत्येके, 1,१.११५,तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्,कालन्,तमालः; विशालः; बिडालः; मृणालम्; कुलालः; कपालम्; पलालम्; पञ्चालाः, 1,१.११६,पतेरङ्गच् पक्षिणि,अङ्गच्,पतङ्गः, 1,१.११७,तरत्यादिभ्यश्च,अङ्गच्,तरङ्गः; लवङ्गम्, 1,१.११८,विडादिभ्यः कित्,अङ्गच्,विडङ्गः; मृदङ्गः; कुरङ्गः; बाहुलकादुत्वं च, 1,१.११९,सृवृञोर्वृद्धिश्च,अङ्गच्,सारङ्गः; वारङ्गः खड्गादिमुष्टिः, 1,१.१२०,गन् गम्यद्योः,गन्,गङ्गा; अद्गः पुरोडाशः, 1,१.१२१,छापूखडिभ्यः कित्,गन्,छागः; पूगः; खड्गः; बाहुलकात् षिट अनादरे गन्सत्वाभावश्च; षिड्गः तरलः; षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः, 1,१.१२२,भृञः किन्नुट् च,गन्,भृञः गन् कित्स्यात्तस्य नुत् च; भृङ्गाः षिड्गालिधूम्याटाः, 1,१.१२३,शृणातेर्ह्रस्वश्च,गन्,शृङ्गम्, 1,१.१२४,गण् शकुनौ,गण्,नुट् चेत्यनुवर्तते; शार्ङ्गः, 1,१.१२५,मुदिग्रोर्गग्गौ,"गक्, ग",मुद्गः; गर्गः, 1,१.१२६,अण्डन्कृसृभृवृञः,अण्डन्,करण्डः; सरण्डः पक्षी; भरण्डः स्वामी; वरण्डो मुखरोगः, 1,१.१२७,शॄदॄभसोऽदिः,अदि,शरत्; दरद्धृदयकूलयोः; भसज्जघनम्, 1,१.१२८,दृणातेर्दृग् ह्रस्वश्च,अदि,दृषत्, 1,१.१२९,त्यजितनियजिभ्यो डित्,अदि,त्यद्; तद्; यद्; सर्वादयः, 1,१.१३०,एतेस्तुट् च,अदि,एतद्, 1,१.१३१,सर्तेरटिः,अटि,सरट् स्याद्वातमेघयोः; वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम्, 1,१.१३२,लङ्घेर्नलोपश्च,अटि,लघट् वायुः, 1,१.१३३,पारयतेरजिः,अजि,पारक् सुवर्णम्, 1,१.१३४,प्रथः कित्संप्रसारणं च,अजि,पृथक्; स्वरादिपाठादव्ययत्वम्, 1,१.१३५,भियः षुक् ह्रस्वश्च,अजि,भिषक्, 1,१.१३६,युष्यसिभ्यां मदिक्,मदिक्,युष् सौत्रो धातुः; युष्मद्; अस्मद्; त्वम्; अहम्, 1,१.१३७,अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन्,मन्,एभ्यश्चतुर्दशभ्यो मन्; अर्मश्चक्षूरोगः; स्तोमः सङ्घातः; सोमः; होमः; सर्मो गमनम्; धर्मः क्षेमं कुशलम्; क्षोमम्; प्रज्ञाद्यणि क्षौमं च; भाम आदित्यः; यामः; वामः शोभनदुष्टयोः; पद्मम्; यक्ष पूजायाम्; यक्ष्मो रोगराजः; नेमः, 1,१.१३८,जहातेः सन्वदालोपश्च,मन्,जिह्मः कुटिलमन्दयोः, 1,१.१३९,अवतेष्टिलोपश्च,मन्,मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः; अन्यथा डिदित्येव ब्रूयात्; इति ऊठौ; तयोर्दीर्घे कृते गुणः; चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न; तेषामसत्त्वार्थत्वात्; वस्तुतस्तु स्वरादिपाठादव्ययत्वम्; अवतीति ओम्,६.४.२० ज्वरत्वर... 1,१.१४०,ग्रसेरा च,मन्,ग्रामः, 1,१.१४१,अविसिविसिशुषिभ्यः कित्,मन्,ऊमं नगरम्; स्यूमो रश्मिः; सिमः सर्वः; शुष्ममग्निसमीपयोः, 1,१.१४२,इषियुधीन्धिदसिश्याधूसूभ्यो मक्,मक्,इष्मः कामवसन्तयोः; ईषीति पाठे दीर्घादिः; युध्मः शरो योद्धा च; इध्मः समित्; दस्मो यजमानः; श्यामः धूमः; सूमोऽन्तरिक्षम्; बाहुलकादीर्मं व्रणः, 1,१.१४३,युजिरुचितिजां कुश्च,मक्,युग्मम्; रुक्मम्; तिग्मम्, 1,१.१४४,हन्तेर्हि च,मक्,हिमम्, 1,१.१४५,भियः षुग्वा,मक्,भीमः; भीष्मः, 1,१.१४६,घर्मः,मक्,घृधातोर्मग्गुणश्च निपात्यते, 1,१.१४७,ग्रीष्मः,मक्,ग्रसतेर्निपातोऽयम्, 1,१.१४८,प्रथेः षिवन् संप्रसारणं च,षिवन्,पृथिवी; पवन्नित्येके; पृथवी पृथिवी पृथ्वी इति शब्दार्णवः, 1,१.१४९,अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्,क्वन्,अश्वः; प्रुष स्नेहनादौ; प्रुष्वः स्यादृतुसूर्ययोः; प्रुष्वा जलकणिका; लट्वा पक्षिभेदः फलं च; कण्वं पापम्; बाहुलकादित्वे किण्वमपि; खट्वा; विश्वम्, 1,१.१५०,इण्शीभ्यां वन्,वन्,एवो गन्ता; ये च एवा मरुतः; असत्वे निपातोऽयम्; शेवं मित्राय वरुणाय, 1,१.१५१,सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे,वन्,अकर्तर्येते निपात्यन्ते; सृतमनेन विश्वमिति सर्वम्; निपूर्वाद्घृषेर्गुणाभावोऽपि; निघृष्यतेऽनेन निघृष्वः खुरः; रिष्वो हिंस्रः; लष्वो नर्तकः; लिष्व इत्यन्ये; तत्रोपधाया इत्वमपि; शेतेऽस्मिन् सर्वमिति शिवः शम्भुः; शीङो ह्रस्वत्वम्; पट्वो रथो भूलोकश्च; प्रहूयते इति प्रह्वः; ह्वेञ आकारवकारलोपः; जहातेरालोपो वा; ईषेर्वन्; ईष्व आचार्यः; इष्व इत्यन्ये; अस्वतन्त्रे किम्; सर्ता सारकः; बाहुलकाद् ह्रसतेः ह्रस्वः, 1,१.१५२,शेवयह्वजिह्वाग्रीवाप्वामीवाः,वण्,शेव इत्यन्तोदात्तार्थम्; यान्त्यनेन वह्वः; ह्रस्वो हुगागमश्च; लिहन्त्यनया जिह्वा; लकारस्य जः गुणाभावश्च; गिरन्त्यनया ग्रीवा; ईडागमश्च; अप्नोतीत्याप्वा वायुः; मीवा उदरकृमिः; वायुरित्यन्ये, 1,१.१५३,कॄगॄशॄदॄभ्यो वः,व,कर्वः काम आखुश्च; गर्वः; शर्वः; दर्वो राक्षसः, 1,१.१५४,कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः,कनिन्,यौतीति युवा; वृषा इन्द्रः; तक्षा; राजा; धन्वा मरुः; धन्व शरासनम्; द्युवा सूर्यः; प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः, 1,१.१५५,सप्यशूभ्यां तुट् च,कनिन्,सप्त; अष्ट, 1,१.१५६,नञि जहातेः,कनिन्,अहः, 1,१.१५७,श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति,कनिन्,एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते; श्वयतीति श्वा; उक्षा पूषा; प्लिह गतौ; इकारस्य दीर्घत्वम्; प्लेहतीति प्लीहा कुक्षिव्याधिः; क्लिदू आर्द्रीभावे; क्लिद्यति क्लेदा चन्द्रः; स्निह्यतेर्गुणः; स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च; मुह्यन्त्यस्मिन्नाहते; मूर्धा; मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च; मज्जत्यस्थिषु मज्जा अस्थिसारः; अर्यपूर्वो माङ् अर्यमा; विश्वं प्साति विश्वप्साग्निः; परिजायते परिज्मा चन्द्रोऽग्निश्च; जनेरुपधालोपो मश्चान्तादेशः; मातरि अन्तरिक्षे श्वयतीति मातरिश्वा; धातोरिकारलोपः; मह पूजायाम्; हस्य घो वुगागमश्च मघवा इन्द्रः, 2,२.१,कृहृभ्यामेणुः,एणु,करेणुः; हरेणुर्गन्धद्रव्यम्, 2,२.२,हनिकुषिनरिकाशिभ्यः कथन्,कथन्,हथो विषण्णः; कुष्ठः; नीथो नेता; रथः काष्ठम्, 2,२.३,अवे भृञः,कथन्,अवभृथः, 2,२.४,उषिकुषिगार्तिभ्यः स्थन्,स्थन्,ओष्ठः कोष्ठम्; गाथा अर्थः; बाहुलकात् शोथः, 2,२.५,सर्तेर्णित्,स्थन्,सार्थः समूहः, 2,२.६,जॄवृञ्भ्यामूथन्,ऊथन्,जरूथं मांसम्; वरूथो रथगुप्तौ ना, 2,२.७,पातॄतुदिवचिरिचिसिचिभ्यस्थक्,थक्,पीथो रविर्घृतं पीथम्; तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु; अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः; तुत्थोऽग्निः; उक्थं सामभेदः; रिक्थम्; बाहुलकादृचेरपि; रिक्थमृक्थं धनं वसु; सिक्थम्, 2,२.८,अर्तेर्निरि,थक्,निर्ऋथं साम, 2,२.९,निशीथगोपीथावगथाः,थक्,निशीथोऽर्धरात्रः रात्रिमात्रं च; गोपीथं तीर्थम्; अवगथः प्रातःस्नातः, 2,२.१०,गश्चोदि,थक्,उद्गीथः साम्नो भागविशेषः, 2,२.११,समीणः,थक्,समिथो वह्निः संग्रामश्च, 2,२.१२,तिथपृष्ठगूथयूथप्रोथाः,थक्,तिजेर्जलोपः; तिथोऽनलः कामश्च; पृष्ठम्; गूथं विष्ठा; यूथं समूहः; प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते, 2,२.१३,स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्,रक्,"द्वात्रिंशद्भ्यो रक् स्यात्; वलि यलोपः; स्फारम्; न्यङ्क्वादित्वात्कुत्वम्; तक्रम्; वक्रम्; शक्रः; क्षिप्रम्; क्षुद्रः; सृप्रश्चन्द्रः; तृप्रः पुरोडाशः; दृप्रो बलवान्; वन्द्रः पूजकः; उन्दी, उन्द्रो जलचरः; श्वित्रं कुष्ठम्; वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे; अजेर्वी, वीरः; नीरम्; पद्रो ग्रामः; मन्द्रो हर्षो देशभेदश्च; मुद्रा प्रत्ययकारिणी; खिद्रो रोगो दरिद्रश्च; छिद्रम्; भिद्रं वज्रम्; मन्द्रः; चन्द्रः; पचाद्यचि चन्दोऽपि; हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः; दहोऽग्निः; दस्रः स्वर्वैद्यः; दम्भ्रः समुद्रः स्वल्पं च; वसेः संप्रसारणे", 2,२.१४,चकिरम्योरुच्चोपधायाः,रक्,चुक्रमम्लद्रव्यम्; रुम्रोऽरुणः, 2,२.१५,वौ कसेः,रक्,विकुस्रश्चन्द्रः, 2,२.१६,अमितम्योर्दीर्घश्च,रक्,आम्रम्; ताम्रम्, 2,२.१७,निन्देर्नलोपश्च,रक्,निद्रा, 2,२.१८,अर्देर्दीर्घश्च,रक्,आर्द्रम्, 2,२.१९,शुचेर्दश्च,रक्,शूद्रः, 2,२.२०,दुरीणो लोपश्च,रक्,दुःखेनेयते प्राप्यत इति दूरम्, 2,२.२१,कृतेश्छः क्रू च,रक्,कृच्छ्र्म्; क्रूरः, 2,२.२२,रोदेर्णिलुक् च,रक्,रोदयतीति रुद्रः, 2,२.२३,बहुलमन्यत्रापि संज्ञाछन्दसोः,रक्,णिलुगित्येव; वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे, 2,२.२४,जोरी च,रक्,जीरोऽणुः; ज्यश्चेत्येके, 2,२.२५,सुसूधागृधिभ्यः क्रन्,क्रन्,सुरः; सूरः; धीरः; गृध्रः, 2,२.२६,शुसिचिमीनां दीर्घश्च,क्रन्,शुः सौत्रः; शूरः; सीरम्; चीरम्; भीरः समुद्रः, 2,२.२७,वा विन्धेः,क्रन्,वीध्रं विमलम्, 2,२.२८,वृधिवपिभ्यां रन्,रन्,वर्ध्रं चर्म; वप्रः प्राकारः, 2,२.२९,ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः,रन्,रन्नन्ता ऊनविंशतिः; निपातनाद्गुणाभावः; ऋज्रो नायकः; इदि इन्द्रः; अङ्गेर्नलोपः; अग्रम्; वज्रोऽस्त्री हीरके पवौ; डुवप् उपधाया इत्वम् विप्रः; कुम्बिचुम्ब्योर्नलोपः; कुब्रमरण्यम्; चुब्रं मुखम्; क्षुर विलेखने रेफलोपः; अगुणः; क्षुरः; खुर छेदने रलोपो गुणाभावश्च; खुरः; भन्देर्नलोपः भद्रम्; उच समवाये; चस्य गः; उग्रः; ञिभी; भेरी; पक्षे लः; भेलो जलतरणद्रव्यम्; शुचेश्चस्य कः; शुक्रः; पक्षे लः; शुक्लः; गुङ् वृद्धिः; गौरोऽरुणे सिते पीते; वन संभक्तौ; वम्रो विभागी इणो गुणाभावः; इरा मद्ये च वारिणि; मा माने माला, 2,२.३०,समि कस उकन्,उकन्,कस गतौ; सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च, 2,२.३१,पचिनशोर्णुकन्कनुमौ च,"णुकन्, कनुम्",पचेः कः; पाकुकः सूपकारः; नशेर्नुम्; नंशुकः, 2,२.३२,भियः क्रुकन्,क्रुकन्,भीरुकः, 2,२.३३,क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि,क्वुन्,रजकः; इक्षुकुट्टकः; चरकः; चष भक्षणे; चषकः; शुनकः; भषकः, 2,२.३४,रमे रश्च लो वा,क्वुन्,रमको विलासी; लमकः, 2,२.३५,जहातेर्द्वे च,क्वुन्,जहकस्त्यागी कालश्च, 2,२.३६,ध्मो धम च,क्वुन्,धमकः कर्मकारः, 2,२.३७,हनो वध च,क्वुन्,वधकः, 2,२.३८,बहुलमन्यत्रापि,क्वुन्,कुह विस्मापने; कुहकः; कृतकम्, 2,२.३९,कृषेर्वृद्धिश्चोदीचाम्,क्वुन्,कार्षकः; कृषकः, 2,२.४०,उदकं च,क्वुन्,प्रपञ्चार्थम्, 2,२.४१,वृश्चिकृष्योः किकन्,किकन्,वृश्चिकः; कृषिकः, 2,२.४२,प्राङिपणिकषः,किकन्,प्रापणिकः पण्यविक्रयी; प्राकषिकः परदारोपजीवी, 2,२.४३,मुषेर्दीर्घश्च,किकन्,मूषिक आखुः, 2,२.४४,स्यमेः संप्रसारणं च,किकन्,चाद्दीर्घः; सीमिको वृक्षभेदः, 2,२.४५,क्रिय इकन्,इकन्,क्रयिकः क्रेता, 2,२.४६,आङि पणिपनिपतिखनिभ्यः,इकन्,आपणिकः; आपनिकः इन्द्रनीलः किरातश्च; आपतिकः श्येनो दैवायत्तश्च; आखनिको मूषिको वराहश्च, 2,२.४७,श्यास्त्याहृञविभ्य इनच्,इनच्,श्येनः; स्त्येनः; हरिणः; अविनोऽध्वर्युः, 2,२.४८,वृजेः किच्च,इनच्,वृजिनम्, 2,२.४९,अजेरज च,इनच्,वीभावबाधनार्थम्; अजिनम्, 2,२.५०,बहुलमन्यत्रापि,इनच्,कठिनम्; नलिनम्; मलिनम्; कुण्डिनम्; द्यतेः यत्परुषि दिनम्; दिवसोऽपि दिनम्, 2,२.५१,द्रुदक्षिभ्यामिनन्,इनन्,द्रविणम्; दक्षिणः; दक्षिणा, 2,२.५२,अर्तेः किदिच्च,इनन्,इरिणं शून्यम्, 2,२.५३,वेपितुह्योर्ह्रस्वश्च,इनन्,विपिनम्; तुहिनम्, 2,२.५४,तलिपुलिभ्यां च,इनन्,तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु; पुलिनम्, 2,२.५५,गर्वेरत उच्च,इनन्,गौरादित्वात् ङीष्; गुर्विणी; गर्भिणी, 2,२.५६,रुहेश्च,इनन्,रोहिणः, 2,२.५७,महेरिनण् च,इनण्,चादिनन्; माहिनन्; महिनं राज्यम्, 2,२.५८,क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च,क्विप्,वाक्; प्राट्; श्रीः; स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम्; द्रूर्हिरण्यम्; कटप्रूः कामरूपी कीटश्च; जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम्, 2,२.५९,आप्नोतेर्ह्रस्वश्च,क्विप्,आपः; अपः; अद्भिः; अद्भ्यः, 2,२.६०,परौ व्रजेः षश्च पदान्ते,क्विप्,व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च; परिव्राट्; परिव्राजौ, 2,२.६१,हुवः श्लुवच्च,क्विप्,जुहूः, 2,२.६२,स्रुवः कः,क,स्रुवः, 2,२.६३,चिक् च,चिक्,इकार उच्चारणार्थः; क इत् कुत्वम्; स्रुवं च स्रुचश्च संमृड्ढि, 2,२.६४,तनोतेरनश्च वः,चिक्,तनोतेश्चिक् प्रत्ययः; अनो वशब्दादेशश्च; त्वक्, 2,२.६५,ग्लानुदिभ्यां डौः,डौ,ग्लौः; नौः, 2,२.६६,च्विरव्ययम्,डौ,डौरित्येव; ग्लौकरोति; इति सिद्धे नियमार्थमिदम्; उणादिप्रत्ययान्तश्च्व्यन्त एवेति,१.१.३९ कृन्मेजन्तः 2,२.६७,रातेर्डैः,डै,राः; रायौ; रायः, 2,२.६८,गमेर्डोः,डो,गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः; स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि; नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु; बाहुलकाद् द्युतेरपि डोः; द्यौः स्त्री स्वर्गान्तरिक्षयोः, 2,२.६९,भ्रमेश्च डूः,डू,भ्रूः; चाद्गमेः; अग्रेगूः, 2,२.७०,दमेर्डोसिः,डोसि,दोः; दोषौ, 2,२.७१,पणेरिज्यादेश्च वः,इजि,वणिक्; स्वार्थेऽण्; नैगमो वाणिजो वणिक्, 2,२.७२,वशेः कित्,इजि,उशिगग्नौ घृतेपि च, 2,२.७३,भृञ ऊच्च,इजि,भूरिक् भूमिः, 2,२.७४,जसिसहोरुरिन्,उरिन्,जसुरिर्व्रज्रम्; सहुरिरादित्यः पृथिवी च, 2,२.७५,सुयुरुवृञो युच्,युच्,सवश्चन्द्रमाः; यवनः; रवणः; कोकिलः; वरणः, 2,२.७६,अशेरश च,युच्,अश्नोतेर्युच् स्यात् रशादेशश्च; रशना काञ्ची; जिह्वावाची तु दन्त्यसकारवान्, 2,२.७७,उन्देर्नलोपश्च,युच्,ओदनः, 2,२.७८,गमेर्गश्च,युच्,गमेर्युच् स्याद्गश्चादेशः; गगनम्, 2,२.७९,बहुलमन्यत्रापि,युच्,युच् स्यात्; स्यन्दनः; रोचना, 2,२.८०,रञ्जेः क्युन्,क्युन्,रजनम्, 2,२.८१,भूसूधूभ्रस्जिभ्यश्छन्दसि,क्युन्,भुवनम्; सुवन आदित्यः; धवनो वह्निः; निधुवनं सुरतम्; भृज्जनमम्बरीषम्, 2,२.८२,कॄपॄवृजिमन्दिनिधाञः क्युः,क्यु,किरणः; पुरणः समुद्रः; वृजनमन्तरिक्षम्; मन्दनं स्तोत्रम्; निधनम्, 2,२.८३,धृषेर्धिष् च संज्ञायाम्,क्यु,धिषणो गुरुः; धिषणा धीः, 2,२.८४,वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च,अति,अतिप्रत्ययान्ताः; पृषु सेचने गुणाभावः पृषन्ति; बृहत् महान्; गमेर्जगादेशः; जगत्, 2,२.८५,संश्चत्तृपद्वेहत्,अति,एते निपात्यन्ते; पृथक्करणं शतृवद्भावनिवृत्त्यर्थम्; संचिनोतेः सुट् इकारलोपः; संश्चत् कुहकः; तृषत् छत्रम्; विपूर्वाद्धन्तेष्टिलोपः; इत ए च; वेहद्गर्भोपघातिनी, 2,२.८६,छन्दस्यसानच् शुजॄभ्याम्,असानच्,शवसानः पन्थाः; जरसानः पुरुषः, 2,२.८७,ऋञ्जिवृद्धिमन्दिसहिभ्यः कित्,असानच्,ऋञ्जसानो मेघः; वृधसानः पुरुषः; मन्दसानोऽग्निर्जीवश्च; सहसानो यज्ञो मयूरश्च, 2,२.८८,अर्तेर्गुणः शुट् च,असानच्,अर्शसानोऽग्निः, 2,२.८९,सम्यानच्स्तुवः,आनच्,संस्तवानो वाग्मी, 2,२.९०,युधिबुधिदृशिभ्यः किच्च,आनच्,युधानः; बुधानः; दृशानो लोकपालकः, 2,२.९१,हुर्छेः सनो लुक् छलोपश्च,आनच्,जुहुराणश्चन्द्रमाः, 2,२.९२,श्वितेर्दश्च,आनच्,शिश्विदानः पुण्यकर्मा, 2,२.९३,तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ,"तृन्, तृच्",शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ; शंस्ता स्तोता; शंस्तरौ; शंस्तरः; क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च; अनुदात्तेत्; वृक्ये चक्षदानमिति मन्त्रात्; उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च; क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे, 2,२.९४,बहुलमन्यत्रापि,"तृन्, तृच्",मन्; मन्ता; हन्; हन्ता; इत्यादि, 2,२.९५,नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ,"तृन्, तृच्",न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च; नयतेः पुग्गुणश्च; नेष्टा; त्विषेरितोऽत्वम्; त्वष्टा; होता; पोता ऋत्विग्भेदः; भ्राजतेर्जलोपः; भ्राता; जायां माति जामाता; मान पूजायां नलोपः; माता; पातेराकारस्य इत्वम्; पिता; दुहेस्तृच इट् गुणाभावश्च; दुहिता, 2,२.९६,सुञ्यसेर्ऋन्,ऋन्,स्वसा, 2,२.९७,यतेर्वृद्धिश्च,ऋन्,याता; भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्, 2,२.९८,नञि च नन्देः,ऋन्,न नन्दति ननान्दा; इह वृद्धिर्नानुवर्तत इत्येके; ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः, 2,२.९९,दिवेर्ऋः,ऋ,देवा देवरः; स्वामिनो देवृ देवरौ, 2,२.१००,नयतेर्डिच्च,ऋ,ना; नरौ नरः, 2,२.१०१,सव्ये स्थश्छन्दसि,ऋ,इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’; सव्येष्टा सारथिः; सव्येष्टरौ; सव्येष्टरः,८.३.९७ अम्बाम्ब... 2,२.१०२,अर्तिसृधृधम्यश्यवितॄभ्योऽनिः,अनि,सरणिः; धरणिः; धमनिः; अमनिर्गतिः; अशनिः; अवनिः; तरणिः; बाहुलकात् रजनिः, 2,२.१०३,आङि शुषेः सनश्छन्दसि,अनि,आशुशुक्षणिरग्निर्वातश्च, 2,२.१०४,कृषेरादेश्च चः,अनि,चर्षणिर्जनः, 2,२.१०५,अदेर्मुट् च,अनि,अद्मनिरग्निः, 2,२.१०६,वृतेश्च,अनि,वर्तनिः; गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह, 2,२.१०७,क्षिपेः किच्च,अनि,क्षिपणिरायुधम्, 2,२.१०८,अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः,इसि,अर्चिर्ज्वाला; इदन्तोऽप्ययम्; अग्नेर्भ्राजन्ते अर्चयः; शोचिर्दीप्तिः; हविः सर्पिः; इति ह्रस्वः; छदिः पटलम्; छर्दिर्वमनव्याधिः; इदन्तोऽपि; छर्द्यतीसारशूलवान्,६.४.९७ इस्मन्... 2,२.१०९,बृंहेर्नलोपश्च,इसि,बर्हिर्ना कुशशुष्मणोः, 2,२.११०,द्युतेरिसिन्नादेश्च जः,इसिन्,ज्योतिः, 2,२.१११,वसौ रुचेः संज्ञायाम्,इसिन्,वसुरोचिर्यज्ञः, 2,२.११२,भुवः कित्,इसिन्,भुविः समुद्रः, 2,२.११३,सहो धश्च,इसिन्,सिधिरनड्वान्, 2,२.११४,पिबतेस्थुक्,इसिन्,पाथिश्चक्षुःसमुद्रयोः, 2,२.११५,जनेरुसिः,उसि,जनुर्जननम्, 2,२.११६,मनेर्धश्छन्दसि,उसि,मधुः, 2,२.११७,अर्तिपॄवपियजितनिधनितपिभ्यो नित्,उसि,अरुः; परुर्ग्रन्थिः; वपुः; यजुः; तनुः; तनुषी; तनूंषि; धनुरस्त्रियाम्; धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति; सान्तस्य उदन्तस्य वा रूपम्; तपुः सूर्याग्निशत्रुषु, 2,२.११८,एतेर्णिच्च,उसि,आयुः; आयुषी, 2,२.११९,चक्षेः शिच्च,उसि,चक्षुः, 2,२.१२०,मुहेः किच्च,उसि,मुहुरव्ययम्, 2,२.१२१,बहुलमन्यत्रापि,उसि,आचक्षुः; परिचक्षुः, 2,२.१२२,कॄगॄशॄवृञ्चतिभ्यः ष्वरच्,ष्वरच्,कर्वरो व्याघ्ररक्षसोः; गर्वरोऽहंकारी; शर्वरी रात्रिः; वर्वरः प्राकृतो जनः; चत्वरम्, 2,२.१२३,नौ सदेः,ष्वरच्,निपद्वरस्तु जम्बालः; निपद्वरी रात्रिः, 3,३.१,छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः,ष्वरच्,एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते; छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च; छित्वरो धूर्तः; छत्वरो गृहकुञ्जयोः; धीवरः कैवर्तः; पीवरः स्थूलः; मीवरो हिंसकाः; चिनोतेर्दीर्घश्च; चीवरं भिक्षुकप्रावरणं; तीवरो जातिविशेषः; नीवरः परिव्राट्; गाहतेर्ह्रस्वत्वम्; गह्वरम्; कटे वर्षादौ; कट्वरं व्यजनम्; यमेर्दकारः; संयद्वरो नृपः; पदेः संपद्वरः इत्येके, 3,३.२,इण्सिञ्जिदीङुष्यविभ्यो नक्,नक्,इनः सूर्ये नृपे पत्यौ; सिनः काणः; जिनोऽर्हन्; दीनः; उष्णः; ऊनः, 3,३.३,फेनमीनौ,नक्,एतौ निपात्येते; स्फायतेः फेनः; मीनः, 3,३.४,कृषेर्वर्णे,नक्,कृष्णः, 3,३.५,बन्धेर्ब्रधिबुधी च,नक्,ब्रध्नः; बुध्नः, 3,३.६,धापॄवस्यज्यतिभ्यो नः,न,धाना भ्रष्टयवे स्त्रियः; पर्णं पत्रम्; पर्णः किंशुकः; वस्नो मूल्ये वेतने च; अजेर्वी; वेनः; अत्न आदित्यः; बाहुलकात्; शृणोतेः श्रोणः पङ्गुः, 3,३.७,लक्षेरट् च,न,लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च; चान्मुडित्येके; लक्षणं लक्ष्मणं नाम्नि चिन्हे च; लक्षणो लक्ष्मणश्च रामभ्राता; लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा, 3,३.८,वनेरिच्चोपधायाः,न,वेन्ना नदी, 3,३.९,सिवेष्ठेर्यू च,न,दीर्घोच्चारणसामर्थ्यान्न गुणः; स्यून आदित्यः; बाहुलकात् केवलो नः; ऊठ्; अन्तरङ्गत्वाद्यण्; गुणः; स्योनः, 3,३.१०,कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित्,न,कर्णः; वर्णः; जर्णश्चन्द्रे च वृक्षे च; सेना; द्रोणः; पन्नो नीचैर्गतिः; अन्नमोदनः; स्वप्नो निद्रा, 3,३.११,धेट इच्च,न,धेनः सिन्धुर्नदी धेना, 3,३.१२,तृषिशुषिरसिभ्यः कित्,न,तृष्णा; शुष्णः सूर्यो वह्निश्च; रस्नं द्रव्यम्, 3,३.१३,सुञो दीर्घश्च,न,सूना वधस्थानम्, 3,३.१४,रमेस्त च,न,रमयतीति रत्नम्, 3,३.१५,रास्नासास्नास्थूणावीणाः,न,रास्ना गन्धद्रव्यम्; सास्ना गोगलकम्बलः; स्थूणा गृहस्तम्भः; वीणा वल्लकी, 3,३.१६,गादाभ्यामिष्णुच्,इष्णुच्,गेष्णुर्गायनः; देष्णुर्दाता, 3,३.१७,कृत्यशूभ्यां क्स्नः,क्स्न,कृत्स्नम्; अक्ष्णमखण्डम्, 3,३.१८,तिजेर्दीर्घश्च,क्स्न,तीक्ष्णम्, 3,३.१९,श्लिषेरच्चोपधायाः,क्स्न,श्लक्ष्णम्, 3,३.२०,यजिमनिशुन्धिदसिजनिभ्यो युच्,युच्,यज्युरध्वर्युः; मन्युर्दैन्ये क्रतौ क्रुधि; शुन्ध्युरग्निः; दस्युस्तस्करः; जन्युः शरीरी, 3,३.२१,भुजिमृङ्भ्याम् युक्त्युकौ,"युक्, त्युक्",भुज्युर्भाजनम्; मृत्युः, 3,३.२२,सर्तेरयुः,अयु,सरयुर्नदी; अयूरिति पाठान्तरम्; सरयूः, 3,३.२३,पानीविषिभ्यः पः,प,पाति रक्षत्यस्मादात्मानमिति पापम्; तद्योगात्पापः; नेपः पुरोहितः; बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः; वेष्पः पानीयम्, 3,३.२४,च्युवः किच्च,प,च्युपो वक्त्रम्, 3,३.२५,स्तुवो दीर्घश्च,प,स्तूपः समुच्छ्रायः, 3,३.२६,सुशॄभ्यां निच्च,प,चात्कित्; सूपः; बाहुलकादूत्वम्; शूर्पम्, 3,३.२७,कुयुभ्यां च,प,कुवन्ति मन्ण्डूका अस्मिन् कूपः; युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः, 3,३.२८,खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः,प,सप्तैते पप्रत्ययान्ता निपात्यन्ते; खनतेर्नकारस्य पत्वम्; खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः; शिल्पं कौशलम्; शसु हिंसायाम् निपातनात्पत्वम्; शष्पं बालतृणं प्रतिभाक्षयश्च; बधतेः पः; बाष्पो नेत्रजलोष्मणोः; बाष्पं च; रौतेर्दीर्घ; रूपं स्वभावे सौन्दैर्ये; पॄ; पर्पं गृहं बालतृणं पङ्गुपीठं च; तल प्रतिष्ठाकरणे चुरादिणिचो लुक्; तल्पं शय्याट्टदारेषु, 3,३.२९,स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच्,इत्नुच्,’अयामन्त-२३११’ इति णेरयादेशः; स्तनयित्नुः; हर्षयित्नुः; पोपयित्नुः गदयित्नुर्वावदूकः; मदयित्नुर्मदिरा, 3,३.३०,कृहनिभ्यां क्त्नुः,क्त्नु,कृत्नुः शिल्पीः; हत्नुर्व्याधिः शस्त्रं च, 3,३.३१,गमेः सन्वच्च,क्त्नु,जिगत्नुः, 3,३.३२,दाभाभ्यां नुः,नु,दानुर्द्ता; भानुः, 3,३.३३,वचेर्गश्च,नु,वग्नुः, 3,३.३४,धेट इच्च,नु,धयति सुतानिति धेनुः, 3,३.३५,सुवः कित्,नु,सूनुः पुत्रेऽनुजे रवौ, 3,३.३६,जहातेर्द्वेऽन्तलोपश्च,नु,जह्नुः, 3,३.३७,स्थो णुः,णु,स्थाणुः कीले स्थिरे हरे, 3,३.३८,अजिवृरीभ्यो निच्च,णु,अजेर्वी; वेणुः; वर्णुर्नददेशभेदयोः; रेणुर्द्वयोः स्त्रियां धूलिः, 3,३.३९,विषेः किच्च,णु,विष्णुः, 3,३.४०,कृदाधारार्चिकलिभ्यः कः,क,बाहुलकान्न कस्येत्संज्ञा; कर्को धवलघोटकः; दाको दाता; धाकोऽनड्वानाधारश्च; राका पौर्णमासी अर्कः; कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि, 3,३.४१,सृवृभूशुषिमुषिभ्यः कक्,कक्,सृक उत्पलवातयोः; वृकः श्वापदकाकयोः; भूकं छिद्रम्; शुष्कः; मुष्कोऽण्डम्, 3,३.४२,शुकवल्कोल्काः,कक्,शुभेरन्त्यलीपः; शुकः; वल्कं वल्कलमस्त्रियाम्; उष दाहे; षस्य लः; उल्का, 3,३.४३,इण्भीकापाशल्यतिमर्चिभ्यः कन्,कन्,एके मुख्यान्यकेवलाः; भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ; काकः; पाकः शिशुः; शल्कं शकलम्; अत्कः पथिकः शरीरावयवश्च; मर्कः शरीरवायुः, 3,३.४४,नौ हः,कन्,जहातेः कन् स्यान्नो; निहाका गोधिका, 3,३.४५,नौ सदेर्डिच्च,कन्,निष्कोऽस्त्री हेम्नि तत्पले, 3,३.४६,स्यमेरीट् च,कन्,स्यमीको वल्मिकः वृक्षभेदश्च; इट्ह्रस्व इति केचित्; स्यमिकः, 3,३.४७,अजियुधुनीभ्यो दीर्घश्च,कन्,वीकः स्याद्वातपक्षिणोः; यूका; धूको वायुः; नीको वृक्षविशेषः, 3,३.४८,ह्रियो रश्च लो वा,कन्,ह्रीका ह्लीका त्रपा मता, 3,३.४९,शकेरुनोन्तोन्त्युनयः,"उन, उन्त, उन्ति, उनि",उन उन्त उन्ति उनि एते चत्वारः स्युः; शकुनः; शकुन्तः; शकुन्तिः; शकुनिः, 3,३.५०,भुवो झिच्,झिच्,भवन्तिर्वर्तमानकालः; बहुलकादवेश्च; अवन्तिः; वदेर्वदन्तिः; किंवदन्ती जनश्रुतिः, 3,३.५१,कन्युच्क्षिपेश्च,कन्युच्,चाद्भुवः; क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः; भवन्युः स्वामिसूर्ययोः, 3,३.५२,अनुङ्नदेश्च,अनुङ्,चात्क्षिपेः; नदनुर्मेघः; क्षिपणुर्वातः, 3,३.५३,कॄवृदारिभ्य उनन्,उनन्,करुणो वृक्षभेदः स्यात्करुणा च कृपा मता; वरुणः; दारुणम्, 3,३.५४,त्रो रश्च लो वा,उनन्,तरुणस्तलुनो युवा, 3,३.५५,क्षुधिपिशिमिथिभ्यः कित्,उनन्,क्षुधुनो म्लेच्छजातिः; पिशुनः; मिथुनम्, 3,३.५६,फलेर्गुक् च,उनन्,फल्गुनः पार्थः; प्रज्ञाद्यण्; फाल्गुनः, 3,३.५७,अशेर्लशश्च,उनन्,लशुनम्, 3,३.५८,अर्जेर्णिलुक् च,उनन्,अर्जुनः, 3,३.५९,तृणाख्यायां चित्,उनन्,चित्त्वादन्तोदात्तः; अर्जुनं तृणम्, 3,३.६०,अर्तेश्च,उनन्,अरुणः, 3,३.६१,अजियमिशीङ्भ्यश्च,उनन्,वयुनं देवमन्दिरम्; यमुना; शयुनोऽजगरः, 3,३.६२,वॄतॄवदिहनिकमिकशिभ्यः सः,स,वर्सः; तर्सः प्लवसमुद्रयोः; वत्सः; वत्सम्; वक्षः; हंसः; कंसोऽस्त्री पानभाजनम्; कक्षं नक्षत्रम्, 3,३.६३,प्लुषेरच्चोपधायाः,स,प्लक्षः, 3,३.६४,मनेर्दीर्घश्च,स,मांसम्, 3,३.६५,अशेर्देवने,स,अक्षः, 3,३.६६,स्नुव्रश्चिकृत्यृषिभ्यः कित्,स,स्नुषा; वृक्षः; कुत्समुदकम्; ऋक्षं नक्षत्रम्, 3,३.६७,ऋषेर्जातौ,स,ऋक्षोऽद्रिभेदे भल्लूके इति च, 3,३.६८,उन्दिगुथिकुषिभ्यश्च,स,उत्सः प्रस्रवणम्; गुत्सः स्तबकः; उक्षो जठरम्, 3,३.६९,गृधिपण्योर्दकौ च,स,गुत्सः कामदेवः; पक्षः, 3,३.७०,अशेः सरः,सर,अक्षरम्, 3,३.७१,वसेश्च,सर,वत्सरः, 3,३.७२,सपूर्वाच्चित्,सर,संवत्सरः, 3,३.७३,कृधूमधिभ्यः कित्,सर,बाहुलकान्न षत्वम्; कृसरः स्यात्तिलौदनम्; धूसरः; मत्सरः; मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता, 3,३.७४,पते रश्च लः,सर,पत्सलः पन्थाः, 3,३.७५,तन्यृषिभ्यां क्सरन्,क्सरन्,तसरः सूत्रवेष्टने; ऋक्षरः ऋत्विक्, 3,३.७६,पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च,कालन्,पीयुः सौत्रः; पियालो वृक्षभेदः; कुणालो देशभेदः, 3,३.७७,कटिकुषिभ्यां काकुः,काकु,कटाकुः पक्षी; कुषाकुरग्निः सूर्यश्च, 3,३.७८,सर्तेर्दुक् च,काकु,सृदाकुर्वातसरितोः, 3,३.७९,वृतेर्वृद्धिश्च,काकु,वार्ताकुः; बाहुलकादुकारस्य अत्वम्; वार्ताकम्, 3,३.८०,पर्देर्नित्संप्रसारणमल्लोपश्च,काकु,पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे, 3,३.८१,सृयुवचिभ्योऽन्युजागूजक्नुचः,"अन्युच्, आगूच्, अक्नुच्",अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः; यवागूः; वचक्नुर्विप्रवाग्मिनोः, 3,३.८२,आनकः शीङ्भियः,आनक,शयानकोऽजगरः; भयानकः, 3,३.८३,आणको लुधुशिघिधाञ्भ्यः,आणक,लवाणकं दात्रम्; धवानको वातः; शिङ्घाणकः श्लेष्मा; पृषोदरादित्वात्पक्षे कलोपः; शिङ्घाणं नासिकामले; धाणको दीनारभागः, 3,३.८४,उल्मुकदर्विहोमिनः,"मुक्, अवि, मिन्",उष दाहे; षस्य लः मुकप्रत्ययश्च; उल्मुकं ज्वलदङ्गारम्; दृणातेर्विः; दर्विः; जुहोतेर्मिनिः; होमी, 3,३.८५,ह्रियः कुक् रश्च लो वा,कुक्,ह्राकुः; ह्रीकुर्लज्जावान्, 3,३.८६,हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन्,तन्,दशभ्यस्तन् स्यात्; इति नेट्; हस्तः; मर्तः; गर्तः; एतः कुर्बरः; वातः; दन्तः; अन्तः; लोतः स्यादश्रुचिह्नयोः; पोतो बालवहित्रयोः; धूर्तः; बाहुलकात्तु सेर्दीर्घश्च; तूस्तं पापं; धूलिर्जटा च,७.२.९ तितुत्र ... 3,३.८७,नञ्याप इट् च,तन्,नापितः, 3,३.८८,तनिमृङ्भ्यां किच्च,तन्,ततम्; मृतम्, 3,३.८९,अञ्जिघृसिभ्यः क्तः,क्त,अक्तम्; घृतम्; सितम्, 3,३.९०,दुतनिभ्यां दीर्घश्च,क्त,दूतः; तातः, 3,३.९१,जेर्मुट् चोदात्तः,क्त,जीमूतः, 3,३.९२,लोष्टपलितौ,क्त,लुनातेः क्तः तस्य सुट् धातोर्गुणः; लोष्टम्; पलितम्, 3,३.९३,हृश्याभ्यामितन्,इतन्,हरितश्येतौ वर्णभेदौ, 3,३.९४,रुहे रश्च लो वा,इतन्,रोहितो मृगमत्स्ययोः; लोहितं रक्तम्, 3,३.९५,पिशेः किच्च,इतन्,पिशितं मांसम्, 3,३.९६,श्रुदक्षिस्पृहिगृहिभ्य आय्यः,आय्य,श्रवाय्यो यज्ञपशुः; दक्षाय्यो गरुडो गृध्रश्च; स्पृहयाय्यः; गृहयाय्यो गृहस्वामी, 3,३.९७,दिधिषाय्यः,आय्य,दधातेर्द्वित्वमित्वं षुक् च; मित्र इव यो दिधिषाय्यः, 3,३.९८,वृञ एण्यः,एण्य,वरेण्यः, 3,३.९९,स्तुवः क्सेय्यश्छन्दसि,क्सेय्य,स्तुषेय्यं पुरुवर्पसम्, 3,३.१००,राजेरन्यः,अन्य,राजन्यो वह्निः, 3,३.१०१,शॄरम्योश्च,अन्य,शरण्यम्; रमण्यम्, 3,३.१०२,अर्तेर्निच्च,अन्य,अरण्यम्, 3,३.१०३,पर्जन्यः,अन्य,पृषु सेचने; षस्य जः; पर्जन्यः शक्रमेघयोः, 3,३.१०४,वदेरान्यः,आन्य,वदान्यस्त्यागिवाग्मिनोः, 3,३.१०५,अमिनक्षियजिवधिपतिभ्योऽत्रन्,अत्रन्,अमत्रं भाजनम्; नक्षत्रम्; यजत्रः; वधत्रमायुधम्; पतत्रं च तनूरुहम्, 3,३.१०६,गडेरादेश्च कः,अत्रन्,कडत्रम्; डलयोरेकत्वस्मरणात् कलत्रम्, 3,३.१०७,वृञश्चित्,अत्रन्,वरत्रा चर्ममयी रज्जुः, 3,३.१०८,सुविदेः कत्रः,कत्र,सुविदत्रं कुटुम्बकम्, 3,३.१०९,कृतेर्नुम् च,कत्र,कृन्तत्रं लाङ्लम्, 3,३.११०,भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्,अतच्,दशभ्योऽतच्स्यात्; भरतः; मनतो मृत्युः; दर्शत सोमसूर्ययोः; यजतः ऋत्विक्; पर्वतः; पचतोऽग्निः; अमतो रोगः; तमतस्तृष्णापरः; नमतः प्रह्णः; हर्यतोऽश्वः, 3,३.१११,पृषिरञ्जिभ्यां कित्,अतच्,पृषतो मृगो बिन्दुश्च; रजतम्, 3,३.११२,खलतिः,अतच्,खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च; खलतिर्निष्केशशिराः, 3,३.११३,शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः,अथ,सप्तभ्योऽथः स्यात्; शयथोऽजगरः; शपथः; रवथः कोकिलः; गमथः पथिकः पन्थाश्च; वञ्चथो धूर्तः; वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च; जीवथ आयुष्मान्; प्राणथो बलवान्; बाहुलकाच्छमिदमिभ्याम्; शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः, 3,३.११४,भृञश्चित्,अथ,भरथो लोकपालः, 3,३.११५,रुदिविदिभ्यां ङित्,अथ,रोदितीति रुदथः शिशुः; वेत्तीति विदथः, 3,३.११६,उपसर्गे वसेः,अथ,आवसथो गृहम्; संवसथो ग्रामः, 3,३.११७,अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्,असच्,त्रयोदशभ्योऽसच् स्यात्; अततीत्यतसो वायुरात्मा च; अवतीत्यवसो राजा भानुश्च; चमत्यस्मिन् चमसः सोमपानपात्रम्; ताम्यत्यस्मिन् तमसोऽन्धकारः; नमसः अनुकूलः; रभसो वेगहर्षयोः; लभसो धनं याचकश्च; नभति नभ्यति वा नभस आकाशः; तपसः पक्षी चन्द्रश्च; पतसः पक्षी; पनसः कन्टकिफलः; पणसः पण्यद्रव्यम्; महसं ज्ञानम्, 3,३.११८,वेञस्तुट् च,असच्,बाहुलकादात्वाभावः; वेतसः, 3,३.११९,वहियुभ्यां णित्,असच्,वाहसोऽजगरः; यावसस्तृणसङ्घातः, 3,३.१२०,वयश्च,असच्,वय गतौ; वायसः काकः, 3,३.१२१,दिवः कित्,असच्,दिवसम्; दिवसः, 3,३.१२२,कॄशॄशलिकलिगर्दिभ्योऽभच्,अभच्,करभः; शरभः; शलभः; कलभः; गर्दभः, 3,३.१२३,ऋषिवृषिभ्यां कित्,अभच्,ऋषभः; वृषभः, 3,३.१२४,रुषेर्निलुष् च,अभच्,रुष हिंसायाम्; अस्मादभच् नित्कित्स्यात लुषादेशश्च; लुषभो मत्तदन्तिनि, 3,३.१२५,रासिवल्लिभ्यां च,अभच्,रासभः; वल्लभः, 3,३.१२६,जॄविशिभ्यां झच्,झच्,जरन्तो महिषः; वेशन्तः पल्वलम्, 3,३.१२७,रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि,झच्,रोहन्तो वृक्षभेदः; नन्दन्तः पुत्रः; जीवन्त औषधम्; प्राणन्तो वायुः; षित्वान्ङीष्; रोहन्ती, 3,३.१२८,तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च,झच्,दशभ्यो झच् स्यात्स च षित्; तरन्तः समुद्रः; तरन्ती नौक; भवन्तः कालः; वहन्तो वायुः; वसन्तः ऋतुः; भासन्तः सूर्यः; साधन्तो भिक्षुः; गडेर्घटादित्वान्मित्त्वं ह्रस्वः; इति णेरयः; गण्डयन्तो जलदः; मण्डयन्तो भूषणम्; जयन्तः शक्रपुत्रः; नन्दयन्तो नन्दकः,६.४.५५ अयामन्ता... 3,३.१२९,हन्तेर्मुट् हि च,झच्,हेमन्तः, 3,३.१३०,भन्देर्नलोपश्च,झच्,भदन्तः प्रव्रजितः, 3,३.१३१,ऋच्छेररः,अर,ऋच्छरा वेश्या; बाहुलकाज्जर्जरझर्झरादयः, 3,३.१३२,अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्,अर,षड्भ्योऽरश्चित् स्यात्; अररं कपाटम्; कमरः कामुकः; भ्रमरः; चमरः; देवरः; वासरः, 3,३.१३३,कुवः क्ररन्,क्ररन्,कुररः पक्षिभेदः, 3,३.१३४,अङ्गिमदिमन्दिभ्य आरन्,आरन्,अङ्गारः; मदारो वराहः; मन्दारः, 3,३.१३५,गडेः कड च,आरन्,कडारः, 3,३.१३६,शृङ्गारभृङ्गारौ,आरन्,शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च; शृङ्गारो रसः; भृङ्गारः कनकालुका, 3,३.१३७,कञ्जिमृजिभ्यां चित्,आरन्,कञ्जिः सौत्रो धातुः; कञ्जारो मयूरः; मार्जारः, 3,३.१३८,कमेः किदुच्चोपधायाः,आरन्,चिदित्यनुवृत्तेरन्तोदात्तः; कुमारः, 3,३.१३९,तुषारादयश्च,आरन्,तुषारः; कासारः; सहार आम्रभेदः, 3,३.१४०,दीङो नुट् च,आरन्,दीनारः सुवर्णाभरणम्, 3,३.१४१,सर्तेरपः षुक् च,अप,सर्षपः, 3,३.१४२,उषिकुटिदलिकचिखजिभ्यः कपन्,कपन्,उषपो वह्निसूर्ययोः; कुटपो मानभाण्डम्; दलपः प्रहरणम्; कचपं शाकपत्रम्; खजपं घृतम्, 3,३.१४३,क्वणेः संप्रसारणं च,कपन्,कुणपम्, 3,३.१४४,कपश्चाक्रवर्मणस्य,कप,स्वरे भेदः, 3,३.१४५,विटपपिष्टपविशिपोलपाः,कप,चत्वारोऽमी कपन् प्रत्ययान्ताः; विट शब्दे; विटपः; विशतेरादेः पः; प्रत्ययस्य तुट्; षत्वम्; पिष्टपं भुवनम्; विशतेः प्रत्ययादेरित्वम्; विशिपं मन्दिरम्; वलतेः संप्रसारणम्; उलपं कोमलं तृणम्, 3,३.१४६,वृतेस्तिकन्,तिकन्,वर्तिका, 3,३.१४७,कृतिभिदिलतिभ्यः कित्,तिकन्,कृत्तिका भित्तिका भित्तिः; लत्तिका गोधा, 3,३.१४८,इष्यशिभ्यां तकन्,तकन्,इष्टका; अष्टका, 3,३.१४९,इणस्तशन्तशसुनौ,"तशन्, तशसुन्",एतशो ब्राह्मणः; स एव एतशाः, 3,३.१५०,वीपतिभ्यां तनन्,तनन्,वी गत्यादौ; वेतनम्; पत्तनम्, 3,३.१५१,दॄदलिभ्यां भः,भ,दर्भः; ’दल्भः स्यादृषिचक्रयोः’, 3,३.१५२,अर्तिगॄभ्यां भन्,भन्,अर्भः; गर्भः, 3,३.१५३,इणः कित्,भन्,इभः, 3,३.१५४,असिसञ्जिभ्यां क्थिन्,क्थिन्,अस्थि; सक्थि, 3,३.१५५,प्लुषिकुषिशुषिभ्यः क्सिः,क्सि,प्लुक्षिर्वह्निः; कुक्षिः; शुक्षिर्वातः, 3,३.१५६,अशेर्नित्,क्सि,अक्षि, 3,३.१५७,इषेः क्सुः,क्सु,इक्षुः, 3,३.१५८,अवितॄस्तॄतन्त्रिभ्यः ईः,ई,अवीर्नारी रजस्वला; तरीर्नौः; स्तरीर्धूमः; तन्त्रीर्वीणादेर्गुणः, 3,३.१५९,यापोः किद्द्वे च,ई,ययीरश्वः; पपीः स्यात्सोमसूर्ययोः, 3,३.१६०,लक्षेर्मुट् च,ई,लक्ष्मीः, 4,४.१,वातप्रमीः,ई,वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित्; वातप्रमीः, 4,४.२,ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः,"कत्निच्, यतुच्, अलिच्, इष्ठुच्, इष्ठच्, इसन्, स्यन्, इथिन्, उलि, अस् , आस्, आनुक्",द्वादशभ्यः क्रमात्स्युः; अर्तेः कत्निच् यण्; बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः; तनोतेर्यतुच्; तन्यतुर्वायू रात्रिश्च; अञ्जेरलिच्; अञ्जलिः; वनेरिष्ठुच्; वनिष्ठुः स्थविरान्त्रम्; अञ्जेरिष्ठच्; अञ्जिष्ठो भानुः; अर्पयतेरिसन्; अर्पिसोऽग्रमांसम्; मदेः स्यन्; मत्स्यः; अतेरिथिन्; अतिथिः; अङ्गेरुलिः; अङ्गुलिः; कौतेरसः; कवसः; अच इत्येके; कवचम्; यौतेरासः; यवासो दुरालभा; कृशेरानुक्; कृशानुः, 4,४.३,श्रः करन्,करन्,उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम्; शर्करा, 4,४.४,पुषः कित्,करन्,पुष्करम्, 4,४.५,कलश्च,कल,पुष्कलम्, 4,४.६,गमेरिनिः,इनि,गमिष्यतीति गमी, 4,४.७,आङि णित्,इनि,आगामी, 4,४.८,भुवश्च,इनि,भावी, 4,४.९,प्रे स्थः,इनि,प्रस्थायी, 4,४.१०,परमे कित्,इनि,परमेष्ठी, 4,४.११,मन्थः,इनि,मन्थतेरिनिः कित्स्यात्; कित्त्वान्नकारलोपः; मन्थाः मन्थानौ मन्थानः, 4,४.१२,पतस्थ च,इनि,पन्थाः; पन्थानौ, 4,४.१३,खजेराकः,आक,खजाकः पक्षी, 4,४.१४,बलाकादयश्च,आक,बलाका; शलाका; पताका, 4,४.१५,पिनाकादयश्च,आक,पातेरित्वम् नुम् च; क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः; तड आघाते; तडाकः, 4,४.१६,कषिदूषिभ्यामीकन्,ईकन्,कषिका पक्षिजातिः; दूषिका नेत्रयोर्मलम्, 4,४.१७,अनिहृषिभ्याम् किच्च,ईकन्,अनीकम्; हृषीकम्, 4,४.१८,चङ्कणः कङ्कणश्च,ईकन्,कण शब्दे; अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च; घन्टिकायां कङ्कणीका सैव प्रतिसरापि च, 4,४.१९,शॄपॄवृञां द्वेरुक् चाभ्यासश्च,ईकन्,शर्करीको हिंस्रः; पर्परीको दिवाकरः; वर्वरीकः कुटिलकेशः, 4,४.२०,पर्फरीकादयश्च,ईकन्,स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः; पर्फरीकं किसलयम्; दर्दरीकं वादित्रम्; झर्झरीकं शरीरम्; तित्तिडीको वृषभेदः; (गणसूत्रम् १९९); चञ्चरीको भ्रमरः; मर्मरीको हीनजनः; कर्करीका गलन्तिका; पुणतेः; पुन्डरीकं वादित्रम्; पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च, 4,४.२१,ईषः किद्ध्रस्वश्च,ईकन्,इषीका शलाका, 4,४.२२,ऋजेश्च,ईकन्,ऋजिकः उपहतः, 4,४.२३,सर्तेर्नुम् च,ईकन्,सृणिका लाला, 4,४.२४,मृडः कीकच्कङ्कणौ,"कीकच्, कङ्कण",मृडीको मृगः; मृडङ्कणः शिशुः, 4,४.२५,अलीकादयश्च,कीकच्,कीकजन्ता निपात्यन्ते; अल भूषणादौ; अलीकं मिथ्या; विपूर्वाद्व्यलीकं विप्रियं खेदश्च; वलीकं पटलप्रान्ते इत्यादि, 4,४.२६,कॄतॄभ्यामीषन्,ईषन्,करीषोऽस्त्री शुष्कगोमये; करीषः तरीता, 4,४.२७,शॄपॄभ्यां किच्च,ईषन्,शिरीषः; पुरीषम्, 4,४.२८,अर्जेर्ऋज च,ईषन्,ऋजीषं पिष्टपचनम्, 4,४.२९,अम्बरीषः,ईषन्,अयं निपात्यते; अबि शब्दे; अम्बरीषः पुमान् भाष्ट्रम्, 4,४.३०,कॄशॄपॄकटिपटिशौटिभ्य ईरन्,ईरन्,करीरो वंशाङ्कुरः; शरीरम्; परीरम्; फलम्; कटीरः कन्दरो जघनप्रदेशश्च; पटीरश्चन्दनः कन्टकः कामश्च; शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ्; शौटीर्यम्, 4,४.३१,वशेः कित्,ईरन्,वशीरम्, 4,४.३२,कशेर्मुट् च,ईरन्,काश्मीरो देशः, 4,४.३३,कृञ उच्च,ईरन्,कुरीरं मैथुनम्, 4,४.३४,घसेः किश्च,ईरन्,क्षीरम्, 4,४.३५,गभीरगम्भीरौ,ईरन्,गभेर्भः पक्षे नुम् च, 4,४.३६,विषा विहा,आ,स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः; विषा बुद्धिः; विहा स्वर्गः; अव्यये इमे, 4,४.३७,पच एलिमच्,एलिमच्,पचेलिमो वह्निरव्योः, 4,४.३८,शीङो धुक्लक्वलञ्वालनः,"धुक्, लक्, वलञ्, वालन्",चत्वारः प्रत्ययाः स्युः; शीधु मद्यम्; शीलं स्वभावः; शैवलः शेवालम्; बाहुलकाद्वस्य पोऽपि; शेवालं शैवलो न स्त्री शेपालो जलनीलिका, 4,४.३९,मॄकणिभ्यामूकोकणौ,"ऊक, ऊकण्",मरूंको मृगः; काणूकः काकः, 4,४.४०,वलेरूकः,ऊक,वलूकः पक्षी उत्पलमूलं च, 4,४.४१,उलूकादयश्च,ऊक,वलेः संप्रसारणमूकश्च; उलूकाविन्द्रपेचकौ; वावदूको वक्ता; भल्लूकः; (गणसूत्र २००); शम्बूको जलशुक्तिः, 4,४.४२,शलिमन्डिभ्यामूकण्,ऊकण्,शालूकं कन्दविशेषः; मण्डूकः, 4,४.४३,नियो मिः,मि,नेमिः, 4,४.४४,अर्तेरूच्च,मि,ऊर्मिः, 4,४.४५,भुवः कित्,मि,भूमिः, 4,४.४६,अश्नोते रश् च,मि,रश्मिः किरणो रज्जुश्च, 4,४.४७,दल्मिः,मि,दल विशरणे; दल्मिरिन्द्रायुधम्, 4,४.४८,वीज्याज्यरिभ्यो निः,नि,बाहुलकाण्णत्वम्; वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे; ज्यानिः; जूर्णिः, 4,४.४९,सृवृषिभ्यां कित्,नि,सृणिरङ्कुशः; वृष्णिः क्षत्रियमेषयोः, 4,४.५०,अङ्गेर्नलोपश्च,नि,अग्निः, 4,४.५१,वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्,नि,वह्निः; श्रेणिः; श्रोणिः; योनिः; द्रोणिः; ग्लानिः; हानिः; तूर्णिः; बाहुलकान्म्लानिः, 4,४.५२,घृणिपृश्निपार्ष्णिचूर्णिभूर्णि,नि,एते पञ्च निपात्यन्ते; घृणिः किरणः; स्पृशतेः सलोपः पृश्निरल्पशरीरः; पृषेर्वृद्धिश्च; पार्ष्णिः पादतलम्; चरेरुपधाया उत्वम्; चूर्णिः कपर्दकशतम्; बिभर्तेरुत्वम्; भूर्णिर्धरणी, 4,४.५३,वृदृभ्यां विन्,विन्,वर्विर्घस्मरः; दर्विः, 4,४.५४,जॄशॄस्तॄजागृभ्यः क्विन्,क्विन्,जीर्विः पर्शुः; शीर्विर्हिंस्रः; स्तीर्विरध्वर्युः; जागृविर्नृपः, 4,४.५५,दिवो द्वे दीर्घश्चाभ्यासस्य,क्विन्,दीदिविः स्वर्गमोक्षयोः, 4,४.५६,कृविघृष्विछविस्थविकिकीदिवि,क्विन्,कृविस्तन्तुवायद्रव्यम्; घृष्विर्वराहः; छास्थोर्ह्रस्वत्वं च; छविर्दीप्तिः; स्थविस्तन्तुवायः; दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः; बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः; चाषेण किकीदीविना, 4,४.५७,पातेर्डतिः,डति,पतिः, 4,४.५८,शकेर्ऋतिन्,ऋतिन्,शकृत्, 4,४.५९,अमेरतिः,अति,अमतिः कालः, 4,४.६०,वहिवस्यर्तिभ्यश्चित्,अति,वहतिः पवनः; वसतिर्गृहयामिन्योः; अरतिः क्रोधः, 4,४.६१,अञ्चेः को वा,अति,अङ्कतिः; अञ्चतिर्वातः, 4,४.६२,हन्तेरंह च,अति,हन्तेरतिः स्यादंहादेशश्च धातोः; हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः, 4,४.६३,रमेर्नित्,अति,रमतिः कालकामयोः, 4,४.६४,सूङः क्रिः,क्रि,सूरिः, 4,४.६५,अदिशदिभूशुभिभ्यः क्रिन्,क्रिन्,अद्रिः; शद्रिः; शर्करा; भूरि प्रचुरम्; शुभ्रिर्ब्रह्मा, 4,४.६६,वङ्क्र्यादयश्च,क्रिन्,क्रिन्नन्ता निपात्यन्ते; वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च; वप्रिः क्षेत्रम्; अंह्रिरङ्घ्रिश्च चरणः; तदिः सौत्रो धातुः; तन्द्रिर्मोहः बाहुलकाद्गुणः; भेरिः, 4,४.६७,राशदिभ्यां त्रिप्,त्रिप्,रात्रिः शन्त्रिः; कुञ्जरः, 4,४.६८,अदेस्त्रिनिश्च,त्रिन्,चात्त्रिप्; अन्त्री; अन्त्रिणौ; अन्त्रिणः; अन्त्रिः; अन्त्री; अन्त्रयः, 4,४.६९,पतेरत्रिन्,अत्रिन्,पतत्रिः पक्षी, 4,४.७०,मृकणिभ्यामीचिः,ईचि,मरीचिः कणीचिः पल्लवो निनादश्च, 4,४.७१,श्वयतेश्चित्,ईचि,श्वयीचिर्व्याधिः, 4,४.७२,वेञो डिच्च,ईचि,वीचिस्तरङ्गः; नञ्समासे अवीचिर्नरकभेदः, 4,४.७३,ऋहनिभ्यामूषन्,ऊषन्,अरूषः सूर्यः; हनूषो राक्षसः, 4,४.७४,पुरः कुषन्,कुषन्,पुर अग्रगमने; पुरुषः; इति दीर्घः; पूरुषः,६.३.१३७ अन्येषामपि – 4,४.७५,पॄनहिकलिभ्य उषच्,उषच्,परुषम्; नहुषः; कलुषम्, 4,४.७६,पीयेरूषन्,ऊषन्,पीय इति सौत्रो धातुः; पीयूषम्; बाहुलकाद्गुणे पेयूषोऽभिनवं पयः, 4,४.७७,मस्जेर्नुम् च,ऊषन्,मञ्जूषा, 4,४.७८,गडेश्च,ऊषन्,गण्डूषः; गण्डूषा, 4,४.७९,अर्तेररुः,अरु,अररुः शत्रुः; अररू; अररवः, 4,४.८०,कुटः किच्च,अरु,कुटरुर्वस्त्रगृहम्; कित्वप्रयोजनं चिन्त्यम्, 4,४.८१,शकादिभ्योऽटन्,अटन्,शकटोऽस्त्रियाम्; शकिर्गत्यर्थः; कङ्कटः सन्नाहः; देवटः शिल्पी; करट इत्यादि, 4,४.८२,कृकदिकडिकटिभ्योऽम्बच्,अबच्,करम्बं व्यामिश्रम्; कदिकडी सौत्रौ; कदम्बो वृक्षभेदः; कडम्बोऽग्रभागः; कटम्बो वादित्रम्, 4,४.८३,कदेर्णित्पक्षिणि,अबच्,कादम्बः कलहंसः, 4,४.८४,कलिकर्द्योरमः,अम,कलमः; कर्दमः, 4,४.८५,कुणिपुल्योः किन्दच्,किन्दच्,कुण शब्दोपकरणयोः; कुणिन्दः शब्दः; पुलिन्दो जातिविशेषः, 4,४.८६,कुपेर्वा वश्च,किन्दच्,कुपिन्दकुविन्दौ तन्तुवाये, 4,४.८७,नौ षञ्जेर्घथिन्,घथिन्,निषङ्गथिरालिङ्गकः, 4,४.८८,उद्यर्तेश्चित्,घथिन्,उदरथिः समुद्रः, 4,४.८९,सर्तेर्णिच्च,घथिन्,सारथिः, 4,४.९०,खर्जिपिञ्जादिभ्य ऊरोलचौ,"ऊर्, उलच्",खर्जूरः; कर्पूरः; वल्लूरं शुष्कमांसम्; पिञ्जूलं कुशवर्तिः; (गणसूत्रम् २०१); लाङ्गूलम्; कुसूलः; (गणसूत्रम् २०२); ताम्बूलम्; (गणसूत्रम् २०३); शार्दूलः; (गणसूत्रम् २०४); दुकूलम्; कुकूलम्, 4,४.९१,कुवश्चट् दीर्घश्च,चट्,कूची चित्रलेखनिका, 4,४.९२,समीणः,चट्,समीचः समुद्रः; समीची हरिणी, 4,४.९३,सिवेष्टेरू च,चट्,सूचो दर्भाङ्कुरः; सूची, 4,४.९४,शमेर्बन्,बन्,शम्बो मुसलम्, 4,४.९५,उल्बादयश्च,बन्,बन्नन्ता निपात्यन्ते; उच समवाये; चस्य लत्वं गुणाभावश्च; उल्बो गर्भाशयः; शुल्बं ताम्रम्; बिम्बम्, 4,४.९६,स्थः स्तोऽम्बजबकौ,"अम्बज्, अबक",तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च; स्तम्बो गुच्छस्तृणादिनः; स्तबकः पुष्पगुच्छः, 4,४.९७,शाशपिभ्यां ददनौ,"द, दन्",शादो जम्बालशष्पयोः, 4,४.९८,अब्दादयश्च,"द, दन्",शब्दः; अवतीत्यशब्दः; (गणसूत्रम् २०५); कुन्दः, 4,४.९९,वलिमलितनिभ्यः कयन्,कयन्,वलयम्; मलयः; तनयः, 4,४.१००,वृह्रोः षुग्दुकौ च,कयन्,वृषयः आश्रयः; हृदयम्, 4,४.१०१,मिपीभ्यां रुः,रु,मेरुः; पेरुः सूर्यः; बाहुलकात् पिबतेरपि; संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः, 4,४.१०२,जत्र्वादयश्च,रु,जत्रु जत्रुणी; अश्रु; अश्रुणी, 4,४.१०३,रुशातिभ्यां क्रुन्,क्रुन्,रुरुर्मृगभेदः; शातयतीति शत्रुः; प्रज्ञादौ पाठाद्ध्रस्वत्वम्, 4,४.१०४,जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः,"इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्",जनित्वौ मातापितरौ; दात्वो दाता; च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च; सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च; वृशः आर्द्रकं मूलकं च; मत्स्यः; षण्ढः; डित्वाट्टिलोपः; नमतीति नटः शैलूषः; बिभर्ति भरटः कुलालो भृतकश्च, 4,४.१०५,अन्येभ्योऽपि दृश्यन्ते,"इत्वन्, त्वन्, त्नण्, क्निन्, शक्, स्य, ढ, डट्, आटच्",पेत्वममृतम् भृशम्, 4,४.१०६,कुसेरुम्भोमेदेताः,"उम्भ, उम, ईद, इत",कुसुम्भम्; कुसुमम्; कुसीदम्; कुसितो जनपदः, 4,४.१०७,सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः,असि,सनोतेरसिप्रत्यय उपधावृद्धिः; सानसिर्हिरण्यम्; वृञो नुक् च; वर्णसिर्जलम्; पॄ पर्णसिर्जलग्रहणम्; तड आघाते तण्डुलाः; अकि लक्षणे उशच्; अङ्कुशः; चषेरालच्; चषालो यूपकटकः; इल्वलो दैत्यभेदः; पल्वलम्; ञिधृषा; ऋकारश्च इकारः; धिष्ण्यम्; शलेर्यः शल्यम्; वा पुंसि शल्यं शङ्कुर्ना, 4,४.१०८,मूशक्यबिभ्यः क्लः,क्ल,मूलम्; शक्लः प्रियंवदे; अम्ब्लो रसः; बाहुलकादमेः; अम्लः, 4,४.१०९,माछाससिभ्यो यः,य,माया; छाया; सस्यम्; बाहुलकात्सुनोतेः; सव्यं दक्षिणवामयोः, 4,४.११०,जनेर्यक्,यक्,जन्यं युद्धम्; जाया भार्या,६.४.४३ ये विभाषा 4,४.१११,अघ्न्यादयश्च,यक्,यगन्ता निपात्यन्ते; हन्तेर्युक् अडागम उपधालोपश्च; अघ्न्या माहेयी; अघ्न्यः प्रजापतिः; कनी दीप्तौ; कन्या; बवयोरैक्यम्; वन्ध्याः, 4,४.११२,स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्,वनिप्,स्नावा रसिकः; मद्वा शिवः; पद्वा पन्थाः; अर्वा तुरङ्गगर्ह्ययोः; पर्वा ग्रन्थिः प्रस्तावश्च; शक्का हस्ती; ङीब्रौ; शक्करी अङ्गुलिः, 4,४.११३,शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप्,क्वनिप्,शीवा अजगरः; क्रुश्वा सृगालः; रुह्वा वृक्षः; जित्वा जेता; क्षित्वा वायुः; सृत्वा प्रजापतिः; धृत्वा विष्णुः, 4,४.११४,ध्याप्योः संप्रसारणं च,क्वनिप्,धीवा कर्मकरः; पीवा स्थूलः, 4,४.११५,अदेर्ध च,क्वनिप्,अध्वा, 4,४.११६,प्र ईरशदोस्तुट् च,क्वनिप्,प्रेर्त्वा प्रशत्वा च सागरः; प्रेत्वरी प्रशत्वरी च नदी, 4,४.११७,सर्वधातुभ्य इन्,इन्,पचिरग्निः; तुडिः; तुण्डिः; वलिः; वटिः; यजिः; देवयजिः; काशत इति काशिः; यतिः; मल्लिः; केलिः; मसी परिणामे; मसिः; बाहुलकाद्गुणः; कोटिः; हेलिः; बोधिः; नन्दिः; कलिः, 4,४.११८,हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च,इन्,हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ; चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः; पेषिर्वज्रम्; रोहिर्व्रती; वर्तिः; वेदिः; छदिश्छेत्ता; कीर्तिः, 4,४.११९,इगुपधात्कित्,इन्,कृषिः; ऋषिः; शुचिः; लिपिः; बाहुलकाद्बत्वे लिबिः; तूल निष्कर्षे; तूलिः; तूली कूर्चिका, 4,४.१२०,भ्रमेः संप्रसारणं च,इन्,भृमिर्वातः; बाहुलकाद्भ्रमिः, 4,४.१२१,क्रमितमिशतिस्तम्भामत इच्च,इन्,क्रिमिः; संप्रसारणानुवृत्तेः कृमिरपि; तिमिर्मत्स्यभेदः; शितिर्मेचकशुक्लयोः; स्तिम्भिः समुद्रः, 4,४.१२२,मनेरुच्च,इन्,मुनिः, 4,४.१२३,वर्णेर्बलिश्चाहिरण्ये,इन्,वर्णिः सौत्रः; अस्य बलिरादेशः; करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्; हिरण्ये तु वर्णिः सुवर्णम्, 4,४.१२४,वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ्,इञ्,वासिश्छेदनवस्तुनि; वापिः; वापी; याजिर्यष्टा; राजिः; राजी; व्राजिर्वातालिः; सादिः सारथिः; निघातिर्लोहघातिनी; वाशिरग्निः; वादिर्विद्वान्; वारिर्गजबन्धनी; जले तु क्लीबम्; बाहुलकाद्वारिः पथिकसंहतौ, 4,४.१२५,नहो भश्च,इञ्,नाभिः स्यात्क्षत्रिये पुंसि; प्राण्यङ्गे तु स्त्रियाम्; पुंस्यपीति केचित्, 4,४.१२६,कृषेर्वृद्धिश्छन्दसि,इञ्,कार्षिः, 4,४.१२७,श्रः शकुनौ,इञ्,शारिः; शारिका, 4,४.१२८,कृञ उदीचां कारुषु,इञ्,कारिः शिल्पी, 4,४.१२९,जनिघसिभ्यामिण्,इण्,जनिर्जननम्; घासिर्भक्ष्यमग्निश्च, 4,४.१३०,अज्यतिभ्यां च,इण्,आजिः संग्रामः; आतिः पक्षी, 4,४.१३१,पादे च,इण्,पदाजिः; पदातिः, 4,४.१३२,अशिपणाय्यो रुडायलुकौ च,इण्,अशे रुट्; राशिः पुञ्जः; पणायतेरायलुक्; पाणिः करः, 4,४.१३३,वातेर्डिच्च,इण्,विः पक्षी; स्त्रियां वीत्यपि, 4,४.१३४,प्रे हरतेः कूपे,इण्,प्रहिः कूपः, 4,४.१३५,नौ व्यो यलोपः पूर्वस्य च दीर्घः,इण्,व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः; नीविः; नीवी वस्त्रग्रन्थौ मूलधने च, 4,४.१३६,समाने ख्यः स चोदात्तः,इण्,समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च; समानं ख्यायते जनैरिति सखा, 4,४.१३७,आङि श्रिहनिभ्यां ह्रस्वश्च,इण्,इण् स्यात्स च डित् आङो ह्रस्वश्च; स्त्रियः पाल्यश्रिकोटयः; सर्पे वृत्रासुरेऽप्यहिः, 4,४.१३८,अच इः,इ,रविः; पविः; तरिः; कविः; अरिः; अलिः, 4,४.१३९,खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च,इ,खनिः; कषिर्हिंस्रः; अजिः; असिः; वसिर्वस्त्रम्; वनिरग्निः; सनिर्भक्तिर्दानं च; ध्वनिः; ग्रन्थिः; चरिः पशुः, 4,४.१४०,वृतेश्छन्दसि,इ,वर्तिः, 4,४.१४१,भुजेः किच्च,इ,भुजिः, 4,४.१४२,कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च,इ,इः कित्स्यात्; किरिर्वराहः; गिरिर्गोत्राक्षिरोगयोः; गिरिणा काणः गिरिकाणः; शिरिः शलभो हन्ता च; पुरिर्नगरं राजा नदी च; कुटिः शाला शरीरं च; भिदिर्वज्रम्; छिदिः परशुः, 4,४.१४३,कुडिकम्प्योर्नलोपश्च,इ,कुडि दाहे; कुडिर्देहः; कपिः, 4,४.१४४,सर्वधातुभ्यो मनिन्,मनिन्,क्रियत इति कर्म; चर्म; भस्म; जन्म; शर्म; स्थाम बलम्; इति ह्रस्वः; छद्म; सुत्रामा,६.४.९७ इस्मन्... 4,४.१४५,बृंहेर्नोच्च,मनिन्,नकारस्याकारः; ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः, 4,४.१४६,अशिशकिभ्यां छन्दसि,मनिन्,अश्मा; शक्मा, 4,४.१४७,हृभृधृसृस्तृशॄभ्य इमनिच्,इमनिच्,हरिमा कालः; भरिमा कुटुम्बम्; धरिमा रूपम्; सरिमा वायुः; स्तरिमा तल्पम्; शरिमा प्रसवः, 4,४.१४८,जनिमृङ्भ्यामिमनिन्,इमनिन्,जनिमा जन्म; मरिमा मृत्युः, 4,४.१४९,वेञः सर्वत्र,इमनिन्,छन्दसि भाषायां चेत्यर्थः; वेमा तन्तुवायदण्डः; अर्धर्चादिः; सामनी वेमनी इति वृत्तिः, 4,४.१५०,नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन्,मनिन्,सप्त अमी निपात्यन्ते; म्नायतेऽनेनेति नाम; सिनोतेर्दीर्घः; सीमा सीमानौ; सीमानः; पक्षे डाप्; सीमे सीमाः; व्येञोऽन्त्यस्योत्वं गुणः; व्योम; रौतेः; रोम; लोम; पाप्मा पापम्; ध्याम परिमाणं तेजश्च, 4,४.१५१,मिथुने मनिः,मनि,उपसर्गक्रियासंबन्धो मिथुनम्; स्वरार्थमिदम्; सुशर्मा, 4,४.१५२,सातिभ्यां मनिन्मनिणौ,"मनिन्, मनिण्",स्यति; साम; सामनी; आत्मा, 4,४.१५३,हनिमशिभ्यां सिकन्,सिकन्,हंसिका हंसयोषिति; मक्षिका, 4,४.१५४,कोररन्,अरन्,कवरः, 4,४.१५५,गिर उडच्,उडच्,गरुडः, 4,४.१५६,इन्देः कमिन्नलोपश्च,कमिन्,इदम्, 4,४.१५७,कायतेर्डिमिः,डिमि,किम्, 4,४.१५८,सर्वधातुभ्यः ष्ट्रन्,ष्ट्रन्,वस्त्रम्; अस्त्रम्; शस्त्रम्; इति ह्रस्वत्वम्; छादनाच्छत्रम्,६.४.९७ इस्मन्... 4,४.१५९,भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च,ष्ट्रन्,भ्राष्ट्रः; गात्रं शकटम्; नान्त्रं स्तोत्रम्; हान्त्रं मरणम्; वैष्ट्रं विष्टपम्; आष्ट्रमाकाशम्, 4,४.१६०,दिवेर्द् युच्च,ष्ट्रन्,द्यौत्रम्, 4,४.१६१,उषिखनिभ्यां कित्,ष्ट्रन्,उष्ट्रः; खात्रं खनित्रं जलाधारश्च, 4,४.१६२,सिविमुच्योष्टेरू च,ष्ट्रन्,सूत्रम्; मूत्रम्, 4,४.१६३,अमिचिमिदिशसिभ्यः क्त्रः,क्त्र,आन्त्रम्; दित्रम्; मित्रम्; शस्त्रम्, 4,४.१६४,पुवो ह्रस्वश्च,क्त्र,पुत्रः, 4,४.१६५,स्त्यायतेर्डट्,डट्,स्त्री, 4,४.१६६,गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः,त्र,गोत्रं स्यान्नामवंशयोः; गोत्रा प्रुथिवी; धर्त्रं गृहम्; वेत्रम्; पक्त्रम्; वक्त्रम्; यन्त्रम्; सन्त्रम्; क्षन्त्रम्, 4,४.१६७,हुयामाश्रुभसिभ्यस्त्रन्,त्रन्,होत्रम्; यात्रा; मात्रा; श्रोत्रम्; भस्त्रा, 4,४.१६८,गमेरा च,त्रन्,गात्रम्, 4,४.१६९,दादिभ्यच्छन्दसि,त्रन्,दात्रम्; पात्रम्, 4,४.१७०,भूवादिगॄभ्यो णित्रन्,णित्रन्,भावित्रम्; वादित्रम्; गादित्रमोदनम्, 4,४.१७१,चरेर्वृत्ते,णित्रन्,चारित्रम्, 4,४.१७२,अशित्रादिभ्य इत्रोत्रौ,"इत्र, उत्र",अशित्रम्; वहित्रम्; धरित्री मही; त्रैङ् एवमादिभ्य उत्रः; तोत्रं प्रहरणम्; वृञ् वरुत्रं प्रावरणम्, 4,४.१७३,अमेर्द्विषति चित्,इत्र,अमित्रः शत्रुः, 4,४.१७४,आः समिण्निकशिभ्याम्,आ,संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात्; स्वरादित्वादव्ययत्वम्; समया; निकषा, 4,४.१७५,चित्तेः कणः कश्च,कण,बाहुलकादगुणः; चिक्कणं मसृणं स्निग्धम्, 4,४.१७६,सूचेः स्मन्,स्मन्,सूक्ष्मम्, 4,४.१७७,पातेर्डुम्सुन्,डुम्सुन्,पुमान्, 4,४.१७८,रुचिभुजिभ्यां किष्यन्,किष्यन्,रुचिष्यमिष्टम्; भुजिष्यो दासः, 4,४.१७९,वसेस्तिः,ति,वस्तिर्नाभेरधो द्वयोः; वस्तयः स्युर्दशासूत्रे; बाहुलकात् शासः शास्तिः राजदण्डः; विन्ध्याख्यमगमस्यतीत्यगस्तिः; शकन्ध्वादिः, 4,४.१८०,सावसेः,ति,स्वस्ति; स्वरादिपाठादव्ययत्वम्, 4,४.१८१,वौ तसेः,ति,वितस्तिः, 4,४.१८२,पदिप्रथिभ्यां नित्,ति,पत्तिः; प्रथितिः, 4,४.१८३,तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च,ति,दृतिः, 4,४.१८४,कॄतॄकृपिभ्यः कीटन्,कीटन्,किरीटं शिरोवेष्टनम्; तिरीटं सुवर्णम्; कृपीटं कुक्षिवारिणोः, 4,४.१८५,रुचिवचिकुचिकुटिभ्यः कितच्,कितच्,रुचितमिष्टम्; उचितम्; कुचितं परिमितम्; कुटितं कुटिलम्, 4,४.१८६,कुटिकुषिभ्यां क्मलन्,क्मलन्,कुड्मलम्; कुष्मलम्, 4,४.१८७,कुषेर्लश्च,क्मलन्,कुल्मलं पापम्, 4,४.१८८,सर्वधातुभ्योऽसुन्,असुन्,चेतः; सरः; पयः; सदः, 4,४.१८९,रपेरत एच्च,असुन्,रेपोऽवद्यम्, 4,४.१९०,अशेर्देवने युट् च,असुन्,देवने स्तुतौ; यशः, 4,४.१९१,उब्जेर्बले बलोपश्च,असुन्,ओजः, 4,४.१९२,श्वेः सम्प्रसारणं च,असुन्,शवः; शवसी; बालपर्यायोऽयम्, 4,४.१९३,श्रयतेः स्वाङ्गे शिरः किच्च,असुन्,श्रयतेः शिरआदेशोऽसुन् किच्च; शिरः; शिरसी, 4,४.१९४,अर्तेरुच्च,असुन्,उरः, 4,४.१९५,व्याधौ शुट्,असुन्,अर्शो गुदव्याधिः, 4,४.१९६,उदके नुट् च,असुन्,अर्तेरसुन् स्यात्तस्य च नुट्; अर्णः; अर्णसी, 4,४.१९७,इण आगसि,असुन्,एनः, 4,४.१९८,रिचेर्धने घिच्च,असुन्,चात्प्रत्ययस्य नुट्; घित्त्वात्कुत्वम्; रेक्णः सुवर्णम्, 4,४.१९९,चायतेरन्ने ह्रस्वश्च,असुन्,चनो भक्तम्, 4,४.२००,वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च,असुन्,वर्पो रूपम्; शेपो गुह्यम्, 4,४.२०१,स्रुरीभ्यां तुट् च,असुन्,स्रोतः; रेतः, 4,४.२०२,पातेर्बले जुट् च,असुन्,पाजः; पाजसी, 4,४.२०३,उदके थुट् च,असुन्,पाथः, 4,४.२०४,अन्ने च,असुन्,पाथो भक्तम्, 4,४.२०५,अदेर्नुम् धौ च,असुन्,अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च; अन्धोऽन्नम्, 4,४.२०६,स्कन्देश्च स्वाङ्गे,असुन्,स्कन्दः; स्कन्दसी, 4,४.२०७,आपः कर्माख्यायाम्,असुन्,कर्माख्यायां ह्रस्वो नुट् च वा; अप्नः; अपः; बाहुलकात्; आपः; आपसी, 4,४.२०८,रूपे जुट् च,असुन्,अब्जो रूपम्, 4,४.२०९,उदके नुम्भौ च,असुन्,अम्भः, 4,४.२१०,नहेर्दिवि भश्च,असुन्,नभः, 4,४.२११,इण आग अपराधे च,असुन्,आगः पापापराधयोः, 4,४.२१२,अमेर्हुक्च,असुन्,अंहः, 4,४.२१३,रमेश्च,असुन्,रंहः, 4,४.२१४,देशे ह च,असुन्,रमन्तेऽस्मिन् रहः, 4,४.२१५,अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च,असुन्,एभ्योऽसुन् कवर्गश्चान्तादेशः; अङ्कश्चिह्नशरीरयोः; अङ्गः पक्षी; योगः समाधिः; भर्गस्तेजः, 4,४.२१६,भूरञ्जिभ्यां कित्,असुन्,भुवः; रजः, 4,४.२१७,वसेर्णित्,असुन्,वासो वस्त्रम्, 4,४.२१८,चन्देरादेश्च छः,असुन्,छन्दः, 4,४.२१९,पचिवचिभ्यां सुट् च,असुन्,पक्षसी तु स्मृतौ पक्षौ; वक्षो हृदयम्, 4,४.२२०,वहिहाधाञ्भ्यश्छन्दसि,असुन्,वक्षाः अनड्वान्; हासाश्चन्द्रः; धासाः पर्वत इति प्राञ्चः; वस्तुतस्तु णिदित्यनुवर्तते न तु सुट्; तेन वहेरुपधावृद्धिः; इतरयोः ’आतो युक् – ७-३-३३’ इति युक्; शोणा धृष्णू नृवाहसा; श्रोता हवं गृणतः स्तोमवाहाः; विश्वो विहायाः; वाजम्भरो विहायाः; देवो न यः पृथिवीं विश्वधायाः; अधारयत् पृथिवीं विश्वधायसम्; धर्णसिं भूरिधायसमित्यादिः, 4,४.२२१,इण आसिः,आसि,अयाः वह्निः; स्वरादिपाठादव्ययत्वम्, 4,४.२२२,मिथुनेऽसिः पूर्ववच्च सर्वम्,असि,उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः; स्वरार्थः, 4,४.२२३,नञि हन एह च,असि,अनेहाः; अनेहसौ, 4,४.२२४,विधाञो वेध च,असि,विदधातीति वेधाः, 4,४.२२५,नुवो धुट् च,असि,नोधाः, 4,४.२२६,गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च,असि,असिः स्यात्; सुतपाः; जातवेदाः; इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम्,६.२.१३९ गतिकारकोपदात् कृत् 4,४.२२७,चन्द्रे मो डित्,असि,चन्द्रोपपदान्माङोऽसिः स्यात्स च डित्; चन्द्रमाः, 4,४.२२८,वयसि धाञः,असि,वयोधास्तरुणः, 4,४.२२९,पयसि च,असि,पयोधाः समुद्रो मेघश्च, 4,४.२३०,पुरसि च,असि,पुरोधाः, 4,४.२३१,पुरूरवाः,असि,पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते, 4,४.२३२,चक्षेर्बहुलं शिच्च,असि,नृचक्षाः, 4,४.२३३,उषः कित्,असि,उषः, 4,४.२३४,दमेरुनसिः,उनसि,सप्तार्चिर्दमुनाः, 4,४.२३५,अङ्गतेरसिरिरुडागमश्च,असि,अङ्गिराः, 4,४.२३६,सर्तेरप्पूर्वादसिः,असि,अप्सराः; प्रायेणायं भूम्नि; अप्सरसः, 4,४.२३७,विदिभुजिभ्यां विश्वे,असि,विश्ववेदाः; विश्वभोजाः, 4,४.२३८,वशेः कनसिः,कनसि,सम्प्रसारणम्; उशनाः, 5,५.१,अदि भुवो डुतच्,डुतच्,अद्भुतम्, 5,५.२,गुधेरूमः,ऊम,गोधूमः, 5,५.३,मसेरूरन्,ऊरन्,मसूरः; प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः, 5,५.४,स्थः किच्च,ऊरन्,स्थूरो मनुष्यः, 5,५.५,पातेरतिः,अति,पातिः स्वामी; संपातिः पक्षिराजः, 5,५.६,वातेर्नित्,अति,वातिरादित्यसोमयोः, 5,५.७,अर्तेश्च,अति,अरतिरुद्वेगः, 5,५.८,तृहेः क्नो हलोपश्च,क्न,तृणम्, 5,५.९,वुञ्लुठितनिताडिभ्य उलच् तण्डश्च,उलच्,व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः, 5,५.१०,दंसेष्टटनौ न आ च,"ट, टन्",दासः सेवकशूद्रयोः, 5,५.११,दंशेश्च,"ट, टन्",दाशो धीवरः, 5,५.१२,उदि चेर्डैसिः,डैसि,स्वरादिपाठादव्ययत्वम्; उच्चैः, 5,५.१३,नौ दीर्घश्च,डैसि,नीचैः, 5,५.१४,सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः,क्त,रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात्; कित्वादनुनासिकलोपः; सूरत उपशान्तो दयालुश्च, 5,५.१५,पूञो यण् णुक् ह्रस्वश्च,यत्,यत्प्रत्ययः; पुण्यम्, 5,५.१६,स्रंसेः शिः कुट् किश्च,यत्,स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च; शिक्यम्, 5,५.१७,अर्तेः क्युरुच्च,क्यु,उरणो मेषः, 5,५.१८,हिंसेरीरन्नीरचौ,"ईरन् , ईरच्",हिंसीरो व्याघ्रदुष्टयोः, 5,५.१९,उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च,"अल्, अच्",उदरम्, 5,५.२०,डित् खनेर्मुट् स चोदात्तः,"अल्, अच्",अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः; मुखम्, 5,५.२१,अमेः सन्,सन्,अंसः, 5,५.२२,मुहेः खो मूर्च,ख,मूर्खः, 5,५.२३,नहेर्हलोपश्च,ख,नखः, 5,५.२४,शीङो ह्रस्वश्च,ख,शिखा, 5,५.२५,माङ ऊखो मय् च,ऊख,मयूखः, 5,५.२६,कलिगलिभ्यां फगस्योच्च,फक्,कुल्फः शरीरावयवो रोगश्च; गुल्फः पादग्रन्थिः, 5,५.२७,स्पृशेः श्वण्शुनौ पृ च,"श्वण् , शुन्",श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः; पार्श्वोऽस्त्री कक्षयोरधः; पर्शुरायुधम्, 5,५.२८,श्मनि श्रयतेर्डुन्,डुन्,श्मन्शब्दो मुखवाची; मुखमाश्रयत इति श्मश्रुः, 5,५.२९,अश्र्वादयश्च,डुन्,अश्रु नयनजलम्, 5,५.३०,जनेष्टन् लोपश्च,टन्,जटा, 5,५.३१,अच् तस्य जङ्घ च,अच्,तस्य जनेः जङ्घादेशः स्यादच्च; जङ्घा, 5,५.३२,हन्तेः शरीरावयवे द्वे च,अच्,जघनम्; पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः, 5,५.३३,क्लिशेरन् लो लोपश्च,अन्,लकारस्य लोपः; केशः, 5,५.३४,फलेरितजादेश्च पः,इतच्,पलितम्, 5,५.३५,कृञादिभ्यः संज्ञायाम् वुन्,वुन्,करकः; करका; कटकः; नरकम्; नरकः; नरको नारकोऽपि चेति द्विरूपकोशः; सरकं गगनम्; कोरकः कोरकं च, 5,५.३६,चीकयतेराद्यन्तविपर्ययश्च,वुन्,कीचको वंशभेदः, 5,५.३७,पचिमच्योरिच्चोपधायाः,वुन्,पेचकः; मेचकः, 5,५.३८,जनेररष्ठ च,अर,जठरम्, 5,५.३९,वचिमनिभ्यां चिच्च,अर,वठरो मूर्खः; मठरो मुनिशौण्डयोः; बिदादित्वान्माठरः; गर्गादित्वान्माठर्यः, 5,५.४०,ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च,"अल्, अच्",ऊर्दरः शूररक्षसोः, 5,५.४१,कृदरादयश्च,अल्,कृदरः; कुसूलः; मृदरं विलसत्; सृदरः सर्पः, 5,५.४२,हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे,युन्,घातनो मारकः, 5,५.४३,क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च,तुन्,क्रान्तुः पक्षी; गान्तुः पथिकः; क्षान्तुर्मशकः, 5,५.४४,हर्यतेः कन्यन् हिर च,कन्यन्,कन्यन् प्रत्ययः; हिरण्यम्, 5,५.४५,कृञः पासः,पास,कर्पासः; बिल्वादित्वात्कार्पासं वस्त्रम्, 5,५.४६,जनेस्तु रश्च,तु,जर्तुर्हस्ती योनिश्च, 5,५.४७,ऊर्णोतेर्डः,ड,ऊर्णा, 5,५.४८,दधातेर्यत् नुट् च,यत्,धान्यम्, 5,५.४९,जीर्यतेः क्रिन् रश्च वः,क्रिन्,जिव्रिः स्यात्कलपक्षिणोः; बहुलकात् इति दीर्घो न,८.२.७७ हलि च 5,५.५०,मव्यतेर्यलोपो मश्चापतुट् चालः,आल,मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य; ममापतालो विषये, 5,५.५१,ऋजेः कीकन्,कीकन्,ऋजीक इन्द्रो धूमश्च, 5,५.५२,तनोतेर्डउः सन्वच्च,डउ,तितउः; पुंसि क्लीबे, 5,५.५३,अर्भकपृथुकपाका वयसि,"वुन्, कुकन्, कन्",ऋधु वृद्धो; अतो वुन्; भकारश्चान्तादेशः; प्रथेः कुकन्संप्रसारणं च; पिबतेः कन्, 5,५.५४,अवद्यावमाधमार्वरेफाः,"यत्, अम, वन्",कुत्सिते वदेर्नञि यत्; अवद्यम्; अवतेरमः; वस्य पक्षे धः; अवमः; अधमः; अर्तेर्वन्; अर्वा; रिफतेस्तौदादिकादेः; रेफः, 5,५.५५,लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः,"त, र",तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट्; लिप्तं श्लिष्टम्; रिप्रं कुत्सितम्, 5,५.५६,क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च,कन्,क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च; कीनाशो यमः; कित्वफलं चिन्त्यम्, 5,५.५७,अश्नोतेराशुकर्मणि वरट् च,वरट्,चकारादुपधाया ईत्वम्; ईश्वरः, 5,५.५८,चतेरुरन्,उरन्,चत्वारः, 5,५.५९,प्राततेररन्,अरन्,प्रातः, 5,५.६०,अमेस्तुट् च,अरन्,अन्तर्मध्यम्, 5,५.६१,दहेर्गो लोपो दश्च नः,ग,गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः; नगः, 5,५.६२,सिचेः संज्ञायां हनुमौ कश्च,क,सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात्; सिंहः, 5,५.६३,व्याङि घ्रातेश्च जातौ,क,कप्रत्ययः स्यात्; व्याघ्रः, 5,५.६४,हन्तेरच् घुर च,अच्,घोरम्, 5,५.६५,क्षमेरुपधालोपश्च,अच्,चादच्; क्ष्मा, 5,५.६६,तरतेर्ड्रिः,ड्रि,त्रयः; त्रीन्, 5,५.६७,ग्रहेरनिः,अनि,ग्रहणिः ङीष्; ग्रहणी व्याधिभेदः, 5,५.६८,प्रथेरमच्,अमच्,प्रथमः, 5,५.६९,चरेश्च,अमच्,चरमः, 5,५.७०,मङ्गेरलच्,अलच्,मङ्गलम्,